अध्यायः 064
भीमेन दुर्योधनानुजाष्टकवधः ॥ 1 ॥ घटोत्कचभयेन कुरुभिः सेनावहारः ॥ 2 ॥ सञ्जय उवाच । ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः । प्राविध्यद्भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपम् ॥ कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः । अवारयदमेयात्मा सर्वलोकस्य पश्यतः ॥ ततो दुर्योधनो राजा सोदर्यैः परिवारितः । सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥ तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे । परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ॥ भीमसेनस्तु सङ्क्रुद्धो गजामुद्यम्य भारत । दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥ रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः । नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥ विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः । दुर्योधनस्तदा राजन्भीमसेनं महारथम् ॥ आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः । ततो भीमो महाबाहुः स्वरथं सुमहाबलः ॥ आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् । एते महारथाः शूरा धार्तराष्ट्राः समागताः ॥ मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि । मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ॥ सफलः सूत चाद्येह योऽहं पश्यामि सोदरान् । यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ॥ प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे । तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ॥ भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः । एतानद्य हनिष्यामि पश्यतस्ते न संशयः ॥ तस्मान्ममाश्वान्सङ्ग्रमे यत्तः संयच्छ सारथे । एवमुक्त्वा ततः पार्थस्तव पुत्रं विशाम्पते ॥ विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः । नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे ॥ तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् । त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥ भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् । मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव ॥ समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः । पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥ अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् । पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ समादधत्सुसङ्क्रुद्धः क्षुरप्रं रोमवाहिनम् । तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥ सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः । अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥ सन्दधे विशिखं घोर कालमृत्युसमप्रभम् । तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे ॥ स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत् । स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह ॥ तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः । नामृष्यन्त महेष्वासाः पाण्डवानां महारथः ॥ ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् । पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥ प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः । दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः । रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥ प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश । सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥ उद्रो भीमरथो भीमो वीरबाहुरलोलुपः । दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥ विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः । भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥ पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः । सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ॥ अभिपत्य महाबाहुर्गरुत्मानिव वेगितः । सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥ सम्प्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः । जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ॥ सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे । उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ॥ पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् । वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ॥ निनाय समरे वीरः परलोकाय पाण्डवः । भीमं भीमरथं चोभौ भीमसेनो हसन्निव ॥ पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् । ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ॥ मिषतां सर्वसैन्यानामनयद्यमसादनम् । पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ॥ शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः । विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥ ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् । एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥ यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च सङ्गतान् । निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ॥ एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः । अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् ॥ भगदत्तः प्रभिन्नेन कुञ्जरेण विशाम्पते । अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः ॥ आपतन्नेव च रणे भीमसेनं शिलीमुखैः । अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥ अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः । भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः ॥ त एनं शरवर्षेण समन्तात्पर्यवारयन् । गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ॥ स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः । प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥ सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे । गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ सञ्चोदितो मदस्रावी भगदत्तेन वारणः । अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः ॥ द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् । तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ॥ असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् । ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ॥ आजघान महाराज शरेणानतपर्वणा । सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः । मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत् । तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम् ॥ ननाद बलवन्नादं भगदत्तः प्रतापवान् । ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं ॥ सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत । स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम् ॥ अदृश्यत निमेषार्धाद्धोररूपं समास्थितः । ऐरावतं समारूढः स वै मायाकृतं स्वयम् ॥ तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः । अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः ॥ त्रय एते महानागा राक्षसैः समधिष्ठिताः । महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ॥ तेजोवीर्यबलोपेता महाबलपराक्रमाः । घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ॥ सगजं भगदत्तं तु हन्तुकामः परन्तपः । ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ॥ परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् । भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ॥ स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः । अनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥ 'व्यवर्तत महाघोषो भैमसेनिशरार्दितः । मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत' ॥ तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् । श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥ एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना । भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ॥ राक्षसश्च महामायः स च राजाऽतिकोपनः । एतौ समेतौ समरे कालमृत्युसमावुभौ ॥ श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः । हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः ॥ तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् । अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति ॥ ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे । महान्हि वर्तते रौद्रः सङ्ग्रामो रोमहर्षणः ॥ भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः । युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ॥ भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः । द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ॥ उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् । तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ॥ पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् । तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ॥ ननाद सुमहानादं विस्फोटमशनेरिव । तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ॥ भीष्मः शान्तनवो भूयो भारद्वाजमभाषत । न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना ॥ बलवीर्यमसाविष्टः ससहायश्च साम्प्रतज् । नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ॥ लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः । पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥ इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः । अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते । अवहारमतः कुर्मः श्वो योत्स्यामः परै सह ॥ पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः । उपायेनापयानं ते घटोत्कचभयार्दिताः ॥ कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः । सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत ॥ एवं तदभवद्युद्धं दिवसं भरतर्षभ । पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥ कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् । व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः । युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ॥ पुरस्कृत्य महाराज भीमसेनघटोत्कचौ । पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥ नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् । सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः ॥ विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् । घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष । प्रयाताः शिबिरायैव निशाकाले परन्तप । दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ॥ मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः । ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि । प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे चतुःषष्टितमोऽध्यायः ॥ ॥ इति चतुर्थदिवसयुद्धं समाप्तम् ॥
6-64-47 सुतेजनैर्बाणैरिति शेषः ॥ 6-64-85 घट्टयन्तः स्पृशन्तः ॥