अध्यायः 063

सात्यकिभूरिश्रवसोः समागमः ॥ 1 ॥ सञ्जय उवाच । हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव । भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् । अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥ तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् । आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ॥ रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् । अनन्तरथपादातं रजसा सर्वतो वृतम् ॥ तं भीमसेनः समरे महोदधिमिवापरम् । सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः । भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥ उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् । असम्भ्रमं भीमसेनो गदया समवारयत् ॥ स संवार्य बलौघांस्तन्गदया रथिनां वरः । अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ तस्मिन्सुतुमुले घोरे काले परमदारुणे । भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥ द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः । न प्राजहन्भीमसेनं भये जाते महाबलम् ॥ ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् । अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः । कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ॥ विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः । ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः ॥ बलानि सम्ममर्दाशु नड्वलानीव कुञ्जरः । मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥ सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः । गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ॥ भीमसेनो महाबाहुस्तव पुत्रस्य वै बले । सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ॥ अदृश्यत महारौद्रा गदा नागाश्वपातनी । तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ॥ रणाङ्गणं समभवन्मृत्योरावाससन्निभम् । पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् । ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥ आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः । बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः । दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ॥ यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः । तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् । ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ तं तथा भीमकर्माणं प्रगृहीतमहागदम् । दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ महता रथघोषेण रथेनादित्यवर्चसा । छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् । भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥ तस्मिन्क्षणे सात्यकिः सत्यसन्धःशिनिप्रवीरोऽभ्यपतत्पितामहम् । निघ्नन्नमित्रान्धनुषा दृढेनसङ्कम्पयंस्तव पुत्रस्य सैन्यम् ॥ तं यान्तमश्वै रजतप्रकाशैःशरान्वपन्तं निशितान्सुपुङ्खान् । नाशक्नवन्धारयितुं तदानींसर्वे गणा भारत ये त्वदीयाः ॥ अविध्यदेनं दशभिः पृषत्कैः-रलम्बुसो राक्षसोऽसौ तदानीम् । शरैश्चतुर्भिः प्रतिविद्ध्य तं चनप्ता शिनेरभ्यपतद्रथेन ॥ अन्वागतं वृष्णिवरं निशम्यतं शत्रुमध्ये परिवर्तमानम् । प्रद्रावयन्तं कुरुपुङ्गवांश्चपुनः पुनश्च प्रणदन्तमाजौ ॥ योधास्त्वदीयाः शरवर्षैरवर्ष-न्मेघा यथा भूधरमम्बुवेगैः । तथापि तं धारयितुं न शेकु-र्मध्यन्दिने सूर्यमिवातपन्तम् ॥ न तत्र कश्चिन्नविषण्ण आसी-दृते राजन्सोमदत्तस्य पुत्रात् । स वै समादाय धनुर्महात्माभिरिश्रवा भारत सौमदत्तिः ॥ दृष्ट्वा रथान्स्वान्व्यपनीयमाना-न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे त्रिषष्टितमोऽध्यायः ॥