अध्यायः 062
भीमसेनादियुद्धवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच । दैवमेव परं मन्ये पौरुषादपि सञ्जय । यत्सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते ॥ नित्यं हि मामकांस्तात हतानेव हि शंससि । अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान् ॥ 'विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान् । 'हीनान्पुरुषकारेण मामकानद्य सञ्जय । पातितान्पात्यमानांश्च हतानेव च शंससि ॥ युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति । पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः ॥ सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च । श्रोष्यामि सततं तात दुःसहानि बहूनि च ॥ तमुपायं न पश्यामि जीयेरन्येन पाण्डवान् । मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय ॥ सञ्जय उवाच । क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् । श्रृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥ धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः । पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैःक ॥ तत्राद्भुतमपश्याम पार्षस्य पराक्रमम् । न्यवारयत यस्तूर्णं शल्यं समितिशोभनम् ॥ नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा । मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥ ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे । धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ अथैनं शरवर्षेण च्छादयामास संयुगे । गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः ॥ अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते । अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥ ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः । आर्तायनिममेयात्मा विव्याध निशितैः शरैः ॥ ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे । मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥ दुर्योधनो विकर्णश्च दुःशासनविविंशती । दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ॥ सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत । एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥ तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥ धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् । नानारूपाणि शस्त्राणि विसृजन्तो विशाम्पते ॥ अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः । ते वै समेयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव ॥ तस्मिन्दशरथे क्रुद्धे वर्तमाने महाभये । तावकानां परेषां वा प्रेक्षका रथिनोऽभवन् ॥ शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः । अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे ॥ ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः । अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम् ॥ अन्योन्यस्पर्धया राजञ्ज्ञातयः सङ्गता मिथः । महास्राणि विमुञ्चन्तः समापेतुरमर्षिणः ॥ दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे । विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम् ॥ दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः । दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥ विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा । तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ॥ एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् । सत्यव्रतं च समरे पुरुमित्रं च भारत ॥ अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः । माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ ॥ अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत् । ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ ॥ शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ । छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः ॥ अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः । विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥ तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम् । भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥ दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् । अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥ गजानीकेन सहितस्तेन राजा सुयोधनाः । मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥ आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः । गदापाणिरवारोहद्रथान्त्सिंह इवोन्नदन् ॥ अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् । अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥ स गजान्गदया निघ्नन्व्यचरत्समरे बली । भीमसेनो महाबाहुः सवज्र इव वासवः ॥ तस्य नादेन महता मनोहृदयकम्पिना । व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः ॥ ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः । नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् । अभ्यवर्षन्त धावन्तो मेघा इव गिरिव्रजान् ॥ नाकुलिस्तु शतानीकः समरे शत्रुपूगहा । क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः । न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम् ॥ शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः । अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥ हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः । अदृश्यन्ताचलाग्रेकषु द्रुमा भग्नशिखा इव ॥ धृष्टद्युम्नहतानन्यानपश्याम महागजान् । पततः पात्यमानांश्च पार्षतेन महात्मना ॥ मागधोऽथ महीपालो गजमैरावणोपमम् । प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥ तमापतन्तं सम्प्रेक्ष्य मागधस्य महागजम् । जघानैकेषुणा वीरःत सौभद्रः परवीरहा ॥ तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः । राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः ॥ विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः । व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव ॥ एकप्रहारनिहतान्भीमसेनेन दन्तिनः । अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥ भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान् । भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान् ॥ नदतः सीदतश्चान्यान्विमुखान्समरे गतान् । विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान् ॥ भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् । अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान् ॥ वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः । विह्नलन्तो गता भूमिं शैला इव धरातले ॥ मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः । व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥ गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः । घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत् ॥ सम्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः । सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम् ॥ तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः । पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥ शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः । कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत ॥ व्यायच्छमानं गदया दिक्षु सर्वासु भारत । अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम् ॥ यमदण्डोपमां गुर्वीमिन्द्राशनिसमकस्वनाम् । अपश्याम महाराय रौद्रां विशसनीं गदाम् ॥ विमिश्रां केशमञ्जाभिः प्रदिग्धां रुधिरेण च । पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् । तथा भीमो गजानीकं गदया समकालयत् ॥ गदया वध्यमानास्ते मार्गणैश्च समन्ततः । स्वान्यनीकानि मृद्गन्तः प्राद्रवन्कुञ्जरास्तव ॥ महावात इवाभ्राणि विधमित्वा स वारणान् । अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे द्विषष्टितमोऽद्यायः ॥
6-62-14 आर्तायनिं ऋतायनपुत्रं शल्यम् ॥