अध्यायः 061
धृष्टद्युन्मेन शलपुत्रवधः ॥ 1 ॥ सञ्जय उवाच । द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः । पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ॥ संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः । पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥ नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे । बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥ तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् । दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ॥ पीडयानं तु तत्सैन्यं पौत्रं तव विशाम्पते । दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥ ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् । प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥ तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् । व्यदृश्यत महच्चापं समरे युध्यतः परैः । स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः । ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ॥ रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन । शितेनोरगसङ्काशां पत्रिणाभिजघान ताम् ॥ शल्यस्य च महावेगानस्यतः समरे शरान् । 'धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः' जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ॥ भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः । नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ॥ ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः । पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥ धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि । सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥ तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ । ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम ॥ स वारणरथोघानां सहस्रैर्बहुभिर्वृतः । वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥ 'पारावताश्वः स रथमास्थाय परवीरहा' धनुर्विष्फार्य सङ्क्रुद्धो नोदयित्वा च वाहिनीम् । ययौ तं मद्रकानीकं केकयांश्च परन्तप ॥ तेन कीर्तिमता गुप्तमनीकं दृढधन्वना । संरब्धरथनागाश्वं योत्स्यमानमशोभत ॥ सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः । त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत् ॥ ततः स मद्रकान्हत्वा दशैव दशभिः शरैः । पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ॥ दमनं चापि दायादं पौरवस्य महात्मनः । जघान विमलाग्नेण नाराचेन परन्तपः ॥ ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् । अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥ सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् । भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥ अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् । अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥ स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ । पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् । पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः ॥ तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् । भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥ दीप्यमानमिवादित्यं मत्तवारणविक्रमम् । अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥ तस्य पाञ्चालदायादः प्रतीपमभिधावतः । शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥ बाणवेगमतीतस्य तथाभ्याशमुपेयुषः । त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥ तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् । हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥ तं निहत्य गदाग्रेण स लेभे परमां मुदम् । पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे । हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥ ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् । अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥ तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ । ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥ ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा । आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥ तथैव पार्षतं शूरं शल्यः समितिशोभनः । आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे एकषष्टितमोऽध्यायः ॥
6-61-1 सांयमनेः शलस्य पुत्रः ॥