अध्यायः 060
भीष्मार्जुनयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
व्युष्टां निशां भारत भारतानामनीकिनीनां प्रमुखे महात्मा । 001a
ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः ॥ 001c
तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ । 002a
जयद्रथश्चातिबलो बलौघैर्नृपास्तथान्ये प्रययुः समन्तात् ॥ 002c
स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन् । 003a
रराज राजा स तु राजमुख्यैर्वृतः सदेवैरिव वज्रपाणिः ॥ 003c
तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः । 004a
सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः ॥ 004c
सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च । 005a
बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा ॥ 005c
ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता । 006a
सेनामहोग्रा सहसा कुरूणां वेगो यथा भीम इवापगायाः ॥ 006c
तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम् । 007a
व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः ॥ 007c
विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन काले । 008a
' जये धृतः शत्रुवरूथिनीनां यथा सुरेन्द्रोऽसुरवाहिनीनाम् ॥ 008c
नारायणेनेन्द्र इवाभिगुप्तः शशीव सूर्येण समेयिवान्यथा । 009a
तथा महात्मा सह केशवेन वरूथिनीनां प्रमुखे रराज ॥' 009c
सोपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये । 010a
कपिध्वजं प्रेक्ष्य रथं विषेदुः सहैव पुत्रैस्तव कौरवेयाः ॥ 010c
प्रकल्पितं गुप्तमुदायुधेन किरीटिना लोकमहारथेन । 011a
तं व्यूहराजं ददृशुस्त्वदीयाश्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥ 011c
यथैव पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन । 012a
यथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च ॥ 012c
ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः । 013a
ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ ॥ 013c
शङ्खस्वनास्तूर्यरवाः प्रणेदुः सर्वेष्वनीकेषु ससिंहनादाः । 014a
ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः ॥ 014c
क्षणेन भेरीपणवप्रणादानन्तर्दधुः शङ्खमहास्वनांश्च । 015a
तच्छङ्खशब्दावृतमन्तरिक्षमुद्धूतभौमद्रुतरेणुजालम् ॥ 015c
महानुभावाश्च ततः प्रकाशमालोक्य वीराः सहसाऽभिपेतुः । 016a
रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः ॥ 016c
गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः । 017a
आवर्तमानान्यभिवर्तमानैर्घोरीकृतान्यद्भुतदर्शनानि ॥ 017c
प्रासैश्च खड्गैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः । 018a
सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि ॥ 018c
विदार्यमाणानि परश्वथैश्च प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् । 019a
गजैर्विषाणापरगात्ररुग्णाः केचित्ससूता रथिनः प्रपेतुः ॥ 019c
गजर्षभाश्चापि गजर्षभेण निपातिता बाणहताः पृथिव्याम् । 020a
गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः ॥ 020c
आर्तस्वनं सादि पदातियूनां विषाणगात्रावरताडितानाम् । 021a
सम्भ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम् ॥ 021c
महारथैः सम्परिवार्यमाणं सन्दृश्य दूरात्कपिराजकेतुम् । 022a
तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः ॥ 022c
महास्त्रबाणाशनिदीप्तिमन्तं किरीटिनं शान्तनवोऽभ्यधावत् । 023a
तथैव शक्रप्रतिमप्रभावमिन्द्रात्मजं द्रोणमुखा विसस्रुः ॥ 023c
कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन् । 024a
ततो रथानां प्रमुखादुपेत्य सर्वास्त्रवित्काञ्चनचित्रवर्मा ॥ 024c
जवेन शूरोऽभिससार सर्वांस्तानर्जुनस्यात्मभवोऽभिमन्युः । 025a
तेषां महास्त्राणि महारथानामसह्यकर्मा विनिहत्य कार्ष्णिः ॥ 025c
बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः । 026a
ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीमाशु रणे रिपूणाम् ॥ 026c
जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्वः । 027a
ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेन ॥ 027c
विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली । 028a
तमुत्तमं सर्वधनुर्धराणामसक्तकर्मा कपिराजकेतुः ॥ 028c
भीष्मं महात्माऽभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः । 029a
तथैव भीष्माहतमन्तरिक्षे महास्त्रजालं कपिराजकेतोः ॥ 029c
विशीर्यमाणं ददृशुस्त्वदीया दिवाकरेणेव तमोभिभूतम् । 030a
एवंविधं कार्मुकभीमनादमदीनवत्सत्पुरुषोत्तमाभ्याम् । 030c
ददर्श लोकः कुरुसृञ्जयाश्च तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥ ॥ 030e
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे षष्टितमोऽध्यायः ॥
6-60-1 व्युष्टां प्रभाताम् ॥ 6-60-7 व्यालो व्यूहविशेषस्तेन नानाविधं गूढसारं च ॥ 6-60-9 सोत्तरबन्धुरेषम् उत्तरेणाच्छादनेन बन्धुरा रम्या ईषा तत्सहितम् ॥ 6-60-18 शरावराणि कवचानि ॥