अध्यायः 059
स्वप्रतिज्ञां विहाय गृहीतचक्रेण कृष्णेन पादचारेण भीष्मं हन्तुमभियानम् ॥ 1 ॥ अर्जुनेन कृष्णस्य प्रतिनिवर्तनम् ॥ 2 ॥
धृतराष्ट्र उवाच 001
प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे । 001a
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥ 001c
भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत । 002a
पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ॥ 002c
सञ्जय उवाच 003
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत । 003a
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ॥ 003c
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु । 004a
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ॥ 004c
अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् । 005a
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥ 005c
प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् । 006a
अस्माकं पाण्डवैः सार्धमनयात्तव भारत ॥ 006c
धनुषां कूजतां तत्र तलानां चाभिहन्यताम् । 007a
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥ 007c
तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव । 008a
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ॥ 008c
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च । 009a
शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ॥ 009c
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः । 010a
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥ 010c
हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः । 011a
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ॥ 011c
प्रावर्तत महावेगा नदी रुधिरवाहिनी । 012a
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ॥ 012c
वराश्वनरनागानां शरीरप्रभवा तदा । 013a
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥ 013c
न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप । 014a
यथा तव सुतानां च पाण्डवानां च भारत ॥ 014c
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः । 015a
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतः ॥ 015c
विकीर्णैः कवचैश्चित्रैः शिरस्त्राणैश्च मारिष । 016a
शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ॥ 016c
विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः । 017a
अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ॥ 017c
तात भ्रातः सखे बन्धो वयस्य मम मातुल । 018a
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥ 018c
अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि । 019a
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥ 019c
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । 020a
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 020c
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । 021a
जघान पाण्डवरथानादिश्य भरतर्षभ ॥ 021c
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् । 022a
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥ 022c
तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह । 023a
अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥ 023c
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे । 024a
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥ 024c
उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो । 025a
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ॥ 025c
न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् । 026a
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥ 026c
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् । 027a
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ॥ 027c
अमानुषेण रूपेण चरन्तं पितरं तव । 028a
शलभा इव राजानः पतन्ति विधिचोदिताः ॥ 028c
भीष्माग्निमभिसङ्क्रुद्धं विनाशाय सहस्रशः । 029a
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ॥ 029c
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः । 030a
भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ॥ 030c
गजं कङ्कटसन्नद्धं वज्रेणेव शिलोच्चयम् । 031a
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ॥ 031c
नाराचेन सुमुक्तेन निजघान पिता तव । 032a
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ॥ 032c
मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते । 033a
एवं सा धर्मराजस्य वध्यमाना महाचमूः ॥ 033c
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा । 034a
प्राकम्पत महासेना शरवर्षेण तापिता ॥ 034c
पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः । 035a
यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ॥ 035c
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् । 036a
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ॥ 036c
अभज्यत महाराज न च द्वौ सह धावतः । 037a
आविद्धनरनागाश्वं पतितध्वजकूबरम् ॥ 037c
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् । 038a
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ॥ 038c
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः । 039a
विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ॥ 039c
विमुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत । 040a
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् ॥ 040c
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा । 041a
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ॥ 041c
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् । 042a
अयं स कालः सम्प्राप्तः पार्थ यस्तेऽभिकाङ्क्षितः ॥ 042c
प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे । 043a
यत्त्वया कथितं वीर पुरा राज्ञां समागमे ॥ 043c
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् । 044a
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥ 044c
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम । 045a
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ॥ 045c
द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले । 046a
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ॥ 046c
भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव । 047a
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः ॥ 047c
नोदयाश्वान्यतो भीष्मो विगाहे तद्बलार्णवम् । 048a
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥ 048c
सञ्जय उवाच 049
ततोऽश्वान्रजतप्रख्यान्नोदयामास माधवः । 049a
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥ 049c
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् । 050a
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥ 050c
ततो भीष्मः कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः । 051a
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ 051c
क्षणेन स रथस्तस्य सहयः सहसारथिः । 052a
शरवर्षेण महता सञ्छन्नो न प्रकाशते ॥ 052c
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् । 053a
चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ॥ 053c
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् । 054a
पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ॥ 054c
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । 055a
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 055c
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । 056a
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥ 056c
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः । 057a
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥ 057c
त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय । 058a
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ॥ 058c
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः । 059a
मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥ 059c
अदर्शयद्वासुदेवो हययाने परं बलम् । 060a
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लघु ॥ 060c
तथा भीष्मस्तु सुदृढं वासुदेवधनञ्जयौ । 061a
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ॥ 061c
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । 062a
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्कितौ ॥ 062c
पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः । 063a
कृष्णयोर्युधि संरब्धो भीष्मः प्राच्छादयद्दिशः । 063c
'पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ॥' 063e
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः । 064a
मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ॥ 064c
ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम् । 065a
सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥ 065c
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि । 066a
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥ 066c
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् । 067a
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥ 067c
अमृष्यमाणो भगवान्केशवः परवीरहा । 068a
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥ 068c
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् । 069a
किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥ 069c
द्रवते च महासैन्यं पाण्डवस्य महात्मनः । 070a
एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ॥ 070c
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् । 071a
सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ॥ 071c
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् । 072a
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ॥ 072c
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् । 073a
तथा चिन्तयतस्तस्य भूय एव पितामहः । 073c
प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति ॥ 073a
तेषां बहुत्वात्तु भृशं शराणां दिशश्च सर्वाः पिहिता बभूवुः । 074c
न चान्तरिक्षं न दिशो न भूमिर्न भास्करोऽदृश्यत रश्मिमाली ॥ 074a
ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः । 075c
द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ॥ 075a
श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च । 076a
प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च ॥ 076c
किरीटिनं त्वरमाणाभिसस्रुर्निदेशगाः शान्तनवस्य राज्ञः । 077a
तं वाजिपादातरथौघजालैरनेकसाहस्रशतैर्ददर्श ॥ 077c
किरीटिनं सम्परिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च । 078a
ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ॥ 078c
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् । 079a
स तान्यनीकानि महाधनुष्मान्शिनिप्रवीरः सहसाऽभिपत्य ॥ 079c
चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य । 080a
विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ॥ 080c
युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच सन्दृश्य शिनिप्रवीरः । 081a
क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः ॥ 081c
मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् । 082a
तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् ॥ 082c
पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च सङ्ख्ये समुदीर्यमाणम् । 083a
अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ॥ 083c
उवाच शैनेयमभिप्रशंसन्दृष्ट्वा कुरूनापततः समग्रान् । 084a
ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु ॥ 084c
भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य । 085a
न सारथेः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ॥ 085c
तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य । 086a
निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरौ ॥ 086c
प्रीतिं करिष्यामि धनञ्जयस्य राज्ञश्च भीमस्य तथाऽश्विनोश्च । 087a
निहत्य सर्वान्धृतराष्ट्रपुत्रांस्तत्पक्षिणो ये च नरेन्द्रमुख्याः । 087c
राज्येन राजानमजातशत्रुं सम्पादयिष्याम्यहमद्य हृष्टः ॥ 087e
' इतीदमुक्त्वा स महानुभावः सस्मार चक्रं निशितं पुराणम् । 088a
सुदर्शनं चिन्तितमात्रमेव तस्याग्रहस्तं स्वयमारुरोह ॥ 088c
तच्चक्रपद्मं प्रगृहीतमाजौ रराज नारायणबाहुनालम् । 089a
यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातम् ॥ 089c
तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् । 090a
तेस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम् ॥' 090c
ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् । 091a
क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् । 091c
सङ्कम्पयन्गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम् ॥ 091e
मदान्धमाजौ समुदीर्णदर्पं सिंहो जिघांसन्निव वारणेन्द्रम् । 092a
सोऽभिद्रवन्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी । 092c
व्यालम्बिपीताम्बरधृक्चकाशे घनो यथा खे तडितावनद्धः ॥ 092e
तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य । 093a
सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा ॥ 093c
स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम् । 094a
अभ्युत्पतल्ँलोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः ॥ 094c
तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम् । 095a
असम्भ्रमं तद्विचकर्ष दोर्भ्यां महाधनुर्गाण्डिवतुल्यघोषम् । 095c
उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः ॥ 095e
एह्येहि देवेश जगन्निवास नमोस्तु ते माधव चक्रपाणे । 096a
प्रसह्य मां पातय लोकनाथ रथोत्तमात्सर्वशरण्य सङ्ख्ये ॥ 096c
त्वया हतस्यापि ममाऽद्य कृष्ण श्रेयः परस्मिन्निह चैव लोके । 097a
सम्भावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ॥ 097c
रथादवप्लुत्य ततस्त्वरावान्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् । 098a
जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ॥ 098c
निगृह्यमणाश्च तदाऽऽदिदेवो भृशं सरोषः किल नाम योगी । 099a
आदाय वेगेन जगाम विष्णुर्जिष्णुं महावात इवैकवृक्षम् ॥ 099c
पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम् । 100a
बलान्निजग्राह हरिं किरीटी पदेऽथ राजन्दशमे कथञ्चित् ॥ 100c
अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली । 101a
उवाच कोपे प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् ॥ 101c
न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च । 102a
अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुजसम्प्रयुक्तः ॥ 102c
'ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य । 103a
स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ॥ 103c
'ततः प्रतिज्ञां समवाप्य भीष्मः कृताञ्चलिः स्तुत्यमथाकरोद्वै । 104a
त्रैविक्रमे यस्य वपुर्बभासे तथैव दृष्ट्वा तु समुज्ज्वलन्तम् ॥ 104c
प्रगृह्य शङ्खं द्विषतां निहन्ता स तानभीषून्पुनराददानः । 105a
भीष्मं शरैः सम्परिवार्य सङ्ख्ये चिच्छेद भूरिश्रवसश्च चापम् ॥ 105c
शल्यं च विद्ध्वा नवभिः पृषत्कैर्दुर्योधनं वक्षसि निर्बिभेद ।' 106a
विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ॥ 106c
व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम् । 107a
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥ 107c
मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिःस्वनाश्च । 108a
ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ॥ 108c
गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च । 109a
जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ॥ 109c
तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम् । 110a
अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ॥ 110c
अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान् । 111a
दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् ॥ 111c
स सप्तभिः सप्त शरप्रवेकान् संवार्य भूरिश्रवसा विसृष्टान् । 112a
शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ॥ 112c
ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम् । 113a
गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः ॥ 113c
ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् । 114a
माहेन्द्रमस्त्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ॥ 114c
तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् । 115a
शरौघजालैर्विमलाग्निवर्णैर्निवारयामास किरीटमाली ॥ 115c
शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् । 116a
निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ॥ 116c
ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य । 117a
गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयाञ्चकार ॥ 117c
तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च । 118a
अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः ॥ 118c
गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः । 119a
पाञ्चालराजो द्रुपदश्च वीरस्तं देशमाजग्मुरदीनसत्त्वाः ॥ 119c
सर्वाणि सैन्यानि तु तावकानि यतो यतो गाण्डिवजः प्रणादः । 120a
ततस्ततः सन्नतिमेव जग्मुर्न तं प्रतीपोऽभिससार कश्चित् ॥ 120c
तस्मिन्सुघोरे नृप सम्प्रहारे हताः प्रवीराः सरथाश्वसूताः । 121a
गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ॥ 121c
परीतसत्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः । 122a
दृढं हताः पत्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्रैः ॥ 122c
निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु । 123a
पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन ॥ 123c
बाणाहतास्तूर्णमपेतसत्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् । 124a
ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः ॥ 124c
ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा । 125a
नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै ॥ 125c
वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः । 126a
नरेन्द्रमज्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता ॥ 126c
शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी । 127a
विशीर्णनानाकवचोर्मिसङ्कुला नराश्वनागास्थिनिकृत्तशर्करा ॥ 127c
श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च । 128a
उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम् ॥ 128c
प्रवर्तितामर्जुनबाणसङ्घैर्मेदोवसासृक्प्रवहां सुभीमाम् । 129a
हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन ॥ 129c
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः । 130a
जयप्रगल्भाः पुरुषप्रवीराः सन्त्रासयन्तः कुरुवीरयोधान् ॥ 130c
हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन । 131a
वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् ॥ 131c
विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च । 132a
ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ॥ 132c
तदैन्द्रमस्त्रं विततं च घोरमसह्यमुद्वीक्ष्य युगान्तकल्पम् । 133a
अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च ॥ 133c
चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम् । 134a
अवाप्य कीर्तिं च यशश्च लोके विजित्य शत्रूंश्च धनञ्जयोऽपि ॥ 134c
ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम् । 135a
ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः ॥ 135c
रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन । 136a
प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ॥ 136c
महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः । 137a
श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ॥ 137c
द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् । 138a
अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये ॥ 138c
स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन । 139a
इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ॥ 139c
उल्कासहस्रैश्च सुसम्प्रदीप्तैर्विभ्राजमानैश्च तथा प्रदीपैः । 140a
किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ॥ ॥ 140c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे एकोनषष्टितमोऽध्यायः ॥
6-59-31 पिण्डितान् एकस्थान् । वर्मितान् कवचिनः ॥ 6-59-39 आक्रन्दे युद्धे ॥ 6-59-83 समुदीर्यमाणं वर्धमानप्रयत्नम् ॥ 6-59-87 अश्विनोरश्विपुत्रयोर्नकुलसहदेवयोः ॥ 6-59-111 प्रजिघाय प्रेषयामास ॥ 6-59-112 शरप्रवेकान् बाणश्रेष्ठान् ॥