अध्यायः 058

अर्जुनादियुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे । 001a
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥ 001c
अथैनं रथवृन्देन कोष्ठकीकृत्य भारत । 002a
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥ 002c
शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह । 003a
प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि ॥ 003c
चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति । 004a
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ॥ 004c
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः । 005a
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ॥ 005c
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । 006a
साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥ 006c
सात्यकिश्चाभिमन्युश्च महत्या सेनया वृतौ । 007a
गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान् ॥ 007c
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् । 008a
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥ 008c
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे । 009a
अभिमन्यो रथं तूर्णमारुरोह परन्तपः ॥ 009c
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् । 010a
व्यधमेतां शितैस्तूर्णं शरैःसन्नतपर्वभिः ॥ 010c
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् । 011a
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ 011c
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ । 012a
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥ 012c
तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् । 013a
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥ 013c
कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ । 014a
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ॥ 014c
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् । 015a
अतीत्य पीतरं युद्धे यदयुध्यत भारत ॥ 015c
भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् । 016a
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥ 016c
ततो दुर्योधनो राजा प्रहारवरपीडितः । 017a
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ 017c
तं विसञ्ज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः । 018a
अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत ॥ 018c
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः । 019a
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥ 019c
पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः । 020a
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ॥ 020c
जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविनाशनैः । 021a
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ॥ 021c
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ । 022a
वार्यमाणं च भीष्मेण द्रोणेन च महात्मना ॥ 022c
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः । 023a
ततो रथसहस्रेषु विद्रवत्सु ततस्ततः ॥ 023c
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ । 024a
सौबलीं समरे सेनां शातयेतां समन्ततः ॥ 024c
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ । 025a
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥ 025c
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशाम्पते । 026a
ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥ 026c
वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे । 027a
दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥ 027c
द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ । 028a
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥ 028c
ततो दुर्योधनो राजा समाश्वस्य विशाम्पते । 029a
न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः ॥ 029c
यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत । 030a
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः ॥ 030c
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः । 031a
अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे ॥ 031c
पुनरावर्ततां तेषां वेग आसीद्विशाम्पते । 032a
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥ 032c
सन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः । 033a
अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ॥ 033c
पितामह निबोधेदं यत्त्वां वक्ष्यामि भारत । 034a
नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥ 034c
द्रोणो चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने । 035a
कृपे चैव महेष्वासे द्रवते यद्वरूथिनी ॥ 035c
न पाण्डवान्प्रतिबलांस्तव मन्ये कथञ्चन । 036a
तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च ॥ 036c
अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह । 037a
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ 037c
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे । 038a
न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ॥ 038c
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च । 039a
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥ 039c
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे । 040a
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ 040c
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः । 041a
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥ 041c
बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः । 042a
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥ 042c
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा । 043a
करिष्यामि यथाशक्ति पश्येदानीं सबान्धवः ॥ 043c
अद्य पाण्डुसुतानेकः ससैन्यान्सह बन्धुभिः । 044a
सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः ॥ 044c
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर । 045a
दध्मुः शङ्खान्मुदा युक्ता भेरीः सञ्जघ्निरे भृशम् ॥ 045c
पाण्डवा हि ततो राजञ्श्रुत्वा तं निनदं महत् । 046a
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन् ॥ ॥ 046c

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे अष्टपञ्चाशोऽध्यायः ॥

6-58-2 कोष्ठकीकृत्य वेष्टयित्वा ॥ 6-58-39 चिन्तयानः अभविष्यमिति शेषः ॥