अध्यायः 057
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
ततो व्यूढेष्वनीकेषु तावकेषु परेषु च । 001a
धनञ्जयो रथानीकमवधीत्तव भारत ॥ 001c
शरैरथिरथो युद्धे दारयन्रथयूथपान् । 002a
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ॥ 002c
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् । 003a
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥ 003c
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् । 004a
बभञ्जुर्बहुशो राजंस्ते चासज्जन्त संयुगे ॥ 004c
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च । 005a
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किञ्चन ॥ 005c
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् । 006a
न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ॥ 006c
अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे । 007a
अवर्तत तदा युद्धं तत्र तत्र विशाम्पते ॥ 007c
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन । 008a
रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ॥ 008c
तथैव पाण्डवानां च रक्षितः सव्यसाचिना । 009a
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥ 009c
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः । 010a
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥ 010c
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे । 011a
ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ॥ 011c
रथी रथिनमासाद्य शरैः कनकभूषणैः । 012a
पातयामास समरे तस्मिन्नतिभयङ्करे ॥ 012c
गजारोहा गजारोहान्नाराचशरतोमरैः । 013a
संसक्तान्पातयामासुस्तव तेषां च सर्वशः ॥ 013c
कश्चिदुत्पत्य समरे वरवारणमास्थितः । 014a
केशपक्षे परामृश्य जहार समरे शिरः ॥ 014c
अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे । 015a
वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ॥ 015c
कश्चित्करिविषाणस्थो वीरो रणविशारदः । 016a
प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ॥ 016c
पत्तिसङ्घा रणे पक्तीन्भिन्दिपालपरश्वथैः । 017a
न्यतापतयन्त संहृष्टाः परस्परकृतागसः ॥ 017c
रथी च समरे राजन्नासाद्य गजयूथपम् । 018a
स गजं पातयामास गजी च रथिनां वरम् ॥ 018c
रथिनं च हयारोहः प्रासेन भरतर्षभ । 019a
पातयामास समरे रथी च हयसादिनम् ॥ 019c
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् । 020a
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥ 020c
गजारोहा हयारोहान्पातयाञ्चक्रिरे तदा । 021a
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥ 021c
गजारोहवरैश्चापि तत्रतत्र पदातयः । 022a
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥ 022c
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः । 023a
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 023c
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा । 024a
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥ 024c
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि । 025a
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥ 025c
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः । 026a
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥ 026c
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे । 027a
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 027c
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः । 028a
दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर ॥ 028c
उत्थितान्यगणेयानि कबन्धानि समन्ततः । 029a
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥ 029c
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे । 030a
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥ 030c
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः । 031a
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ॥ 031c
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः । 032a
पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ॥ 032c
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः । 033a
सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत ॥ 033c
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः । 034a
द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥ 034c
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः । 035a
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥ 035c
विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि । 036a
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ॥ 036c
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव । 037a
अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ॥ 037c
तथैव पाण्डवाः सर्वे महत्या सेनया सह । 038a
द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ॥ 038c
किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् । 039a
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥ 039c
ततः प्रववृते भूयः सङ्ग्रामो रोमहर्षणः । 040a
तावकानां परेषां च समरे विजयैषिणाम् ॥ ॥ 040c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे सप्तपञ्चशोऽध्यायः ॥
6-57-3 मृत्युरेव निवर्तनहेतुर्नान्य इत्यर्थः ॥ 6-57-7 अनुमानेन ध्वजादिचिह्नेन । सञ्ज्ञाभि सङ्केतैश्च ॥ 6-57-26 परिस्तोमैश्चित्रकम्बलैः । कुथाभिस्तैरेव क्षुद्रैः । कम्बलै राङ्कवैः । महाधनैर्महामूल्यैः ॥ 6-57-36 महामात्राः प्रधानाः ॥