अध्यायः 055

अर्जुनयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत । 001a
रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ 001c
द्रोणपुत्रेण शल्येन कृपेण च महात्मना । 002a
समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ॥ 002c
स लोकविदितानश्वान्निजघान महाबलः । 003a
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥ 003c
ततः शल्यरथं तूर्णमास्थाय हतवाहनः । 004a
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥ 004c
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत । 005a
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥ 005c
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः । 006a
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ॥ 006c
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा । 007a
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥ 007c
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् । 008a
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥ 008c
दौर्योधनिः सुसङ्क्रुद्धः सौभद्रं परवीरहा । 009a
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥ 009c
अभिमन्युः सुसङ्क्रुद्धो भ्रातरं भरतर्षभ । 010a
शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥ 010c
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा । 011a
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ॥ 011c
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा । 012a
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥ 012c
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ । 013a
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥ 013c
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् । 014a
पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ॥ 014c
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः । 015a
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥ 015c
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः । 016a
न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ॥ 016c
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनञ्जयः । 017a
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ॥ 017c
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः । 018a
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ 018c
उद्धूतं सहसा भौमं नागाश्वरथपत्तिभिः । 019a
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ॥ 019c
तानि नागसहस्राणि भूमिपालशतानि च । 020a
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ 020c
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः । 021a
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ॥ 021c
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः । 022a
प्रजज्ञे भरतश्रेष्ठ शस्त्रसङ्घैः किरीटिनः ॥ 022c
सादिता रथनागाश्च हताश्वा रथिनो रणे । 023a
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ 023c
विरथा रथिनश्चान्ये धावमानाः समन्ततः । 024a
तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ 024c
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः । 025a
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ 025c
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः । 026a
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ॥ 026c
सगदानुद्यतान्बाहून्सखड्गांश्च विशाम्पते । 027a
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ 027c
साङ्कुशान्सपताकांश्च तत्रतत्रार्जुनो नृणाम् । 028a
निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ॥ 028c
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष । 029a
प्रासानां भिन्दिपालानां निस्त्रिंशानां च संयुगे ॥ 029c
परश्वथानां तीक्ष्णानां तोमराणां च भारत । 030a
वर्मणां चापविद्धानां काञ्चनानां च भूमिप ॥ 030c
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः । 031a
छत्राणां हेमदण्डानां तोमराणां च भारत ॥ 031c
प्रतोदानां च योक्त्राणां कशानां चैव मारिष । 032a
राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ 032c
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत । 033a
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन ॥ 033c
यो यो हि समरे पार्थं प्रत्युद्याति विशाम्पते । 034a
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥ 034c
तेषु विद्रवमाणेषु तव योधेषु सर्वशः । 035a
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥ 035c
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव । 036a
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ 036c
एष पाण्डुसुतो वीर कृष्णेन सहितो बली । 037a
तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः ॥ 037c
न ह्येष समरे शक्यो विजेतुं हि कथञ्चन। 038a
यथास्य दृश्यते रूप कालान्तकयमोपमम् ॥ 038c
न निवर्तयितुं चापि शक्येयं महती चमूः । 039a
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ॥ 039c
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते । 040a
चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥ 040c
तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ । 041a
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन॥ 041c
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् । 042a
अवहारमथो चक्रे तावकानां महारथः ॥ 042c
'ततः सरथनागाश्वा जंय प्राप्य ससोमकाः । 043a
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ॥ 043c
प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः । 044a
वादित्रघोषैः संहृष्टाः प्रणद्यन्तो महारथाः ॥' 044c
ततोऽवहारः सैन्यानां तव तेषां च भारत । 045a
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥ ॥ 045c

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे पञ्चपञ्चाशोऽध्यायः ॥ ॥ इति द्वितीयदिवसयुद्धम् ॥

6-55-8 तव पौत्रमवस्थितम् इति क. घ. पुस्तकपाठः ॥ 6-55-37 यथा कुर्याद्धनञ्जयः । धनञ्जयोऽग्निः ॥ 6-55-43 वर्तति वर्तमाने ॥