अध्यायः 054
भीमसेनेन कलिङ्गादिवधः ॥ 1 ॥
धृतराष्ट्र उवाच 001
मम पुत्रसमादिष्टः कलिङ्गो वाहिनीपतिः । 001a
कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥ 001c
चरन्तं गदया वीर दण्डहस्तमिवान्तकम् । 002a
योधयामास समरे कलिङ्गः सह सेनया ॥ 002c
सञ्जय उवाच 003
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः । 003a
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥ 003c
तामापतन्तीं महतीं कलिङ्गानां महाचमूम् । 004a
रथाश्वनागकलिलां प्रगृहीतमहायुधाम् ॥ 004c
भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् । 005a
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ 005c
ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह । 006a
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ 006c
रथैरनेकसाहस्रैः कलिङ्गानां नराधिप । 007a
अयुतेन गजानां च निषादैः सह केतुमान् ॥ 007c
भिमसेनं रणे राजन्समन्तात्पर्यवारयत् । 008a
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः ॥ 008c
अभ्यधावन्त समरे निषादान्सह राजभिः । 009a
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ 009c
न प्राजानन्त योधाः स्वान्परस्परजिघांसया । 010a
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ॥ 010c
यथेन्द्रस्य महाराज महत्या दैत्यसेनया । 011a
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत ॥ 011c
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः । 012a
अन्योन्यं स्म तदा योधा विकर्षन्तो विशाम्पते ॥ 012c
महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् । 013a
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ॥ 013c
स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः । 014a
विमर्दः सुमहानासीदल्पानां बहुभिः सह ॥ 014c
कलिङ्गैः सह चैदीनां निषादैश्च विशाम्पते । 015a
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ॥ 015c
भीमसेनं परित्यज्य सन्न्यवर्तन्त चेदयः । 016a
सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु ॥ 016c
स्वबाहुबलमास्थाय अभ्यवर्षन्त पाण्डवम् । 017a
न चचाल रथोपस्थाद्भीमसेनो महाबलः ॥ 017c
शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् । 018a
कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ॥ 018c
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः । 019a
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ॥ 019c
योधयामास कालिङ्गं स्वबाहुबलमाश्रितः । 020a
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ॥ 020c
अश्वाञ्जघान समरे भीमसेनस्य सायकैः । 021a
तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम् ॥ 021c
शक्रदेवोऽभिदुद्राव शरैरवकिरञ्शितैः । 022a
भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः ॥ 022c
ववर्ष शरवर्षाणि तपान्ते जलदो यथा । 023a
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ॥ 023c
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् । 024a
स तया निहतो राजन्कालिङ्गतनयो रथात् ॥ 024c
विरथः सह सूतेन जगाम धरणीतलम् । 025a
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ॥ 025c
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः । 026a
'अयुतेन गजानां च निषादैः परिवारितः ।' 026c
ततो भीमो महावेगां त्यक्त्वा गुर्वीं महागदाम् ॥ 026e
निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् । 027a
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ॥ 027c
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् । 028a
कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च ॥ 028c
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् । 029a
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ 029c
तमापतन्तं वेगेन प्रेरितं निशितं शरम् । 030a
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ 030c
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् । 031a
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे ॥ 031c
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् । 032a
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ॥ 032c
चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना । 033a
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश ॥ 033c
भानुमन्तं ततो भीमः प्राद्रवत्पुरुषर्षभः । 034a
भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन् ॥ 034c
ननाद बलवन्नादं नादयानो नभस्तलम् । 035a
न च तं ममृषे भीमः सिंहनादं महाहवे ॥ 035c
ततः शब्देन महता विननाद महास्वनः । 036a
तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी ॥ 036c
न भीमं समरे मेने मानुषं भरतर्षभ । 037a
ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम् ॥ 037c
सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् । 038a
आरुरोह ततो मध्यं नागराजस्य मारिष ॥ 038c
ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्विधा । 039a
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ 039c
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः । 040a
गुरुभारसहे स्कन्धे नागस्यासिमपातयत् ॥ 040c
छिन्नस्कन्धः स विनदन्पपात गजयूथपः । 041a
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥ 041c
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः । 042a
खड्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः ॥ 042c
स चचार बहून्मार्गानभितः पातयन्गजान् । 043a
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥ 043c
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः । 044a
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः ॥ 044c
श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः । 045a
छिन्दंस्तेषां शरीराणि शिरांसि च महाबलः ॥ 045c
खड्गेन शितधारेण संयुगे गजयोधिनाम् । 046a
पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः ॥ 046c
सम्मोहयामास स तान्कालान्तकयमोपमः । 047a
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ॥ 047c
सासिमुत्तमवेगेन विचरन्तं महारणे । 048a
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च ॥ 048c
जघान रथिनश्चापि बलवान्रिपुमर्दनः । 049a
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत ॥ 049c
भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् । 050a
सम्पातं समुदीर्णं च दर्शयामास पाण्डवः ॥ 050c
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना । 051a
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥ 051c
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे । 052a
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ॥ 052c
निपेतुरुर्व्यां च तथा विनदन्तो महारवान् । 053a
छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च ॥ 053c
परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः । 054a
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ॥ 054c
तूणीरानथ यन्त्राणि विचित्राणि धनूंषि च । 055a
भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह ॥ 055c
घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि । 056a
पततः पातितांश्चैव पश्यामः सह सादिभिः ॥ 056c
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः ॥ 057a
आसीद्भूमिः समास्तीर्णा पतितैर्भूधरैरिव ॥ 057c
विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः । 058a
अश्वारोहवरांश्चैव पातयामास संयुगे ॥ 058c
तद्घोरमभवद्युद्धं तस्य तेषां च भारत । 059a
खलीनान्यथ योक्त्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥ 059c
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः । 060a
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ॥ 060c
तत्रतत्रापविद्धानि व्यदृश्यन्त महाहवे । 061a
प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ॥ 061c
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव । 062a
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः ॥ 062c
पातयामास खड्गेन सध्वजानपि पाण्डवः । 063a
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ॥ 063c
मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः । 064a
स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत् ॥ 064c
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् । 065a
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ॥ 065c
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः । 066a
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ॥ 066c
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् । 067a
ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ ॥ 067c
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् । 068a
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः ॥ 068c
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे । 069a
कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः ॥ 069c
भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः । 070a
अथाशोकः समादाय रथं हेमपरिष्कृतम् ॥ 070c
भीमं सम्पादयामास रथेन रथसारथिः । 071a
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ॥ 071c
कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् । 072a
ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान् ॥ 072c
प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् । 073a
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ॥ 073c
समाहतो महाराज कलिङ्गेन महात्मना । 074a
सञ्चुक्रुशे भृशं भीमो दण्डाहत इवोरगः ॥ 074c
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः । 075a
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥ 075c
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ । 076a
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥ 076c
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः । 077a
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ 077c
ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् । 078a
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥ 078c
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वथैः । 079a
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥ 079c
सन्निवार्य स तां घोरां शरवृष्टिं समुत्थिताम् । 080a
गदामादाय तरसा सन्निपत्य महाबलः ॥ 080c
भीमः सप्तशतान्वीराननयद्यमसादनम् । 081a
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ॥ 081c
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् । 082a
एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः ॥ 082c
बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् । 083a
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे ॥ 083c
विप्रजग्मुरनीकेषु मेघा वातहता इव । 084a
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥ 084c
ततो भीमो महाबाहुः खड्गहस्तो महाभुजः । 085a
सम्प्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली ॥ 085c
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् । 086a
मोहश्चापि कलिङ्गानामाविवेश परन्तप ॥ 086c
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः । 087a
भीमेन समरे राजन्गजेन्द्रेणेव सर्वशः ॥ 087c
मार्गान्बहून्विचरता धावता च ततस्ततः । 088a
मुहुरुत्पतता चैव सम्मोहः समपद्यत ॥ 088c
भीमसेनभयत्रस्तं सैन्यं च समकम्पत । 089a
क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः ॥ 089c
त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा । 090a
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥ 090c
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः । 091a
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥ 091c
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः । 092a
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥ 092c
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः । 093a
महता मेघवर्णेन नागानीकेन पृष्ठतः ॥ 093c
एवं सन्नोद्य सर्वाणि स्वान्यनीकानि पार्षतः । 094a
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषैर्वृतः ॥ 094c
न हि पञ्चालराजस्य लोके कश्चन विद्यते । 095a
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥ 095c
सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः । 096a
भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ 096c
ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः । 097a
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ 097c
स च पारावताश्वस्य रथे हेमपरिष्कृते । 098a
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥ 098c
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् । 099a
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥ 099c
100a तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।
कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ ॥ 100c
स तत्र गत्वा शैनेयो जवेन जयतां वरः । 101a
पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः ॥ 101c
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः । 102a
आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत ॥ 102c
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् । 103a
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥ 103c
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् । 104a
तां सन्ततार दुस्तारां भीमसेनो महाबलः ॥ 104c
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप । 105a
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥ 105c
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे । 106a
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥ 106c
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः । 107a
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 107c
परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे । 108a
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्च्छुरोजसा ॥ 108c
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव । 109a
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥ 109c
ततः शरसहस्रेण सन्निवार्य महारथान् । 110a
हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः ॥ 110c
हताश्वे स रथे तिष्ठन्भीमसेनः प्रतापवान् । 111a
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥ 111c
अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव । 112a
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥ 112c
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवान्गदाम् । 113a
भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ ॥ 113c
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया । 114a
गाङ्गेयसारथिं तूर्णं पातयामास सायकैः ॥ 114c
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः । 115a
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ 115c
भीमसेनस्ततो राजन्नपयाते महाव्रते । 116a
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥ 116c
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत । 117a
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥ 117c
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः । 118a
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥ 118c
सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ । 119a
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥ 119c
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः । 120a
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥ 120c
दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान् । 121a
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥ 121c
स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः । 122a
महापुरुषभूयिष्ठो धीरयोधनिषेवितः ॥ 122c
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया । 123a
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम । 123c
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥ 123e
ततः स्वरथमास्थाय पुनरेव महारथः । 124a
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥ ॥ 124c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे चतुःपञ्चाशोऽध्यायः ॥
6-54-34 भानुमन्तं कलिङ्गात्मजम् ॥ 6-54-40 अन्तरायुधिनं गजारूढयोधम् ॥ 6-54-43 आविद्धं भ्रामितम् ॥ 6-54-47 कालान्तकयमोपमः प्रलयकालीननाशकयमतुल्यः ॥ 6-54-53 महामात्रो हस्तिपकः ॥ 6-54-54 कणपान् मुद्गरान् ॥ 6-54-57 गात्रावरैर्गात्रैः पूर्वकायैः अवररधःकायैः ॥ 6-54-59 खलीनानि अश्वास्यनिवेश्यानि कडिआळीति प्रसिद्धानि । कक्ष्या गजमध्यबन्धनम् ॥ 6-54-70 अशोको विशोकः ॥ 6-54-108 आनर्च्छुः आच्छादितवन्तः ॥ 6-54-115 वातायमानैः इतस्ततो धावद्भिः ॥