अध्यायः 052

भीष्मार्जुनयोर्युद्धम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । 001a
कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे ॥ 001c
सञ्जय उवाच 002
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः । 002a
'तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु ।' 002c
अपारमिव सन्दृश्य सागरप्रतिमं बलम् ॥ 002e
तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव । 003a
अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः ॥ 003c
ते मनः क्रूरमाधाय समभित्यक्तजीविताः । 004a
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ 004c
ततो युद्धं समभवत्तुमुलं रोमहर्षणम् । 005a
तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ 005c
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताः । 006a
सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥ 006c
तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः । 007a
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥ 007c
सौभद्रे भीमसेने च सात्यकौ च महारथे । 008a
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ॥ 008c
एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः । 009a
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ 009c
अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे । 010a
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ 010c
सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः । 011a
विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ॥ 011c
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् । 012a
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ 012c
एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् । 013a
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ 013c
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन । 014a
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥ 014c
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना । 015a
सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ॥ 015c
तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय । 016a
एष त्वां प्रापयिष्यामि पितामहरथं प्रति ॥ 016c
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् । 017a
प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ॥ 017c
चलद्बहुपातकेन बलाकावर्णवाजिना । 018a
समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥ 018c
महता मेघनादेन रथेनामिततेजसा । 019a
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ॥ 019c
प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः । 020a
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ॥ 020c
त्रासयन्तं रणे शूरान्मर्दयन्तं च सायकैः । 021a
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः । 021c
सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥ 021e
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् । 022a
द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ॥ 022c
ततो भीष्मो महाराज सर्वलोकमहारथः । 023a
अर्जुनं सप्तसप्तत्या नाराचानां समाचिनोत् ॥ 023c
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः । 024a
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ॥ 024c
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः । 025a
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥ 025c
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः । 026a
न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥ 026c
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः । 027a
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥ 027c
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः । 028a
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥ 028c
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः । 029a
सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनञ्जयम् ॥ 029c
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् । 030a
अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ 030c
भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम् । 031a
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः ॥ 031c
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत् । 032a
प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ॥ 032c
तेषां महारथानां स मध्यं प्राप्य धनञ्जयः । 033a
चिक्रीड धनुषा राजल्ँलक्षं कृत्वा महारथान् ॥ 033c
'क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः । 034a
शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा ॥' 034c
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः । 035a
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ 035c
एष पाण्डुसुतस्तात कृष्णेन सहितो बली । 036a
यततां सर्वसैन्यानां मूलं नः परिकृन्तति । 036c
त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ॥ 036e
त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशाम्पते । 037c
न युध्यति रणे पार्थान्हितकामः सदा मम । 037a
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ॥ 037e
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव । 038a
धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थ रथं प्रति ॥ 038c
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः । 039a
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिष ॥ 039c
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः । 040a
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥ 040c
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् । 041a
स्थिता युद्धाय महते ततो युद्धमवर्तत ॥ 041c
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः । 042a
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ॥ 042c
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । 043a
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥ 043c
शरजालं ततस्तत्तु शरजालेन मारिष । 044a
वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ॥ 044c
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ । 045a
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥ 045c
भीष्मचापविमुक्तानि शरजालानि सङ्घशः । 046a
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ॥ 046c
तथैवार्जुनमुक्तानि शरजालानि सर्वशः । 047a
गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ॥ 047c
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः । 048a
भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः ॥ 048c
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ । 049a
रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ॥ 049c
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः । 050a
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ 050c
भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः । 051a
विरराज रणे राजन्सपुष्प इव किंशुकः ॥ 051c
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् । 052a
सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ॥ 052c
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति । 053a
न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ॥ 053c
तौ मण्डलानि चित्राणि गतप्रत्यागतानि च । 054a
अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥ 054c
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् । 055a
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥ 055c
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः । 056a
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥ 056c
तयोः शङ्खनिनादेन रथनेमिस्वनेन च । 057a
दारिता सहसा भूमिश्चकम्पे च ननाद च ॥ 057c
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ । 058a
बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ॥ 058c
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः । 059a
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ॥ 059c
तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम् । 060a
विस्मयं सर्वभूतानि जग्मुर्भारतसंयुगे ॥ 060c
न तयोर्विवरं कश्चिद्रणे पश्यति भारत । 061a
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥ 061c
उभौ च शरजालेन तावदृश्यौ बभूवतुः । 062a
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥ 062c
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह । 063a
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥ 063c
न शक्यौ युधि संरब्धौ जेतुमेतौ कथञ्चन । 064a
सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ॥ 064c
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् । 065a
नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ॥ 065c
न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता । 066a
सधनुः सरथः साश्वः प्रवपन्सायकान्रणे ॥ 066c
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् । 067a
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥ 067c
आलोकादपि युद्धं हि सममेतद्भविष्यति । 068a
इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यस्ततस्ततः । 068c
गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशाम्पते ॥ 068e
त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत । 069a
अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे ॥ 069c
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः । 070a
शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैरपि ॥ 070c
उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् । 071a
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे । 071c
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ ॥ 071e

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे द्विपञ्चाशोऽध्यायः ॥

6-52-10 व्यतिकरो मेलकः । समागम इत्यर्थः ॥ 6-52-15 दृढधन्वना भीष्मेण ॥ 6-52-55 अन्तरं छिद्रम् । तर्कयन्तौ चिन्तयन्तौ । अन्तरमार्गस्थौ छिद्रान्वेषणपरौ ॥ 6-52-59 चिह्नं ध्वजः ॥ 6-52-68 आलोकात् आसंसारस्थितेः ॥