अध्यायः 051
भीष्मादिभिः प्रतिव्यूहरचना ॥ 1 ॥
सञ्जय उवाच 001
क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव । 001a
रक्षमाणं महाघोरं पार्थेनामिततेजसा ॥ 001c
आचार्यमुपसङ्गम्य कृपं शल्यं च पार्थिव । 002a
सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च ॥ 002c
दुःशासनादीन्भ्रातॄंश्च सर्वानेव च भारत । 003a
अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ॥ 003c
प्राहेदं वचनं काले हर्षयंस्तनयस्तव । 004a
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 004c
एकैकशः समर्था हि यूयं सर्वे महारथाः । 005a
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ॥ 005c
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । 006a
पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम् ॥ 006c
संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा । 007a
आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥ 007c
शत्रुञ्जयेन सहितास्तथा दुःशासनेन च । 008a
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥ 008c
चित्रसेनेन सहिताः सहिताः पारिभद्रकैः । 009a
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ॥ 009c
ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष । 010a
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम् ॥ 010c
भीष्मः सैन्येन महता समनन्तात्परिवारितः । 011a
ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ॥ 011c
तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् । 012a
कुन्तलैश्च दशार्णैश्च मागधैश्च विशाम्पते ॥ 012c
विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि । 013a
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ॥ 013c
गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः । 014a
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ॥ 014c
ततो दुर्योधनो राजा सहितः सर्वसोदरैः । 015a
अश्वातकैर्विकर्णैश्च तथा चाम्बष्ठकोसलैः ॥ 015c
दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः । 016a
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥ 016c
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः । 017a
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥ 017c
सौमदत्तिः सुशर्मा च काम्भोजश्च सुदक्षिणः । 018a
श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः ॥ 018c
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । 019a
महत्या सेनया सार्धं सेनापृष्टे व्यवस्थिताः ॥ 019c
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः । 020a
केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ 020c
ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत । 021a
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांस्तथोन्नदन् ॥ 021c
तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः । 022a
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 022c
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः । 023a
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 023c
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । 024a
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥ 024c
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । 025a
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 025c
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । 026a
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 026c
काशिराजश्च शैब्यश्च शिखण्डी च महारथः । 027a
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥ 027c
पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः । 028a
सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे ॥ 028c
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः । 029a
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 029c
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः । 030a
पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् ॥ ॥ 030c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे एकपञ्चाशोऽध्यायः ॥
6-51-6 अपर्याप्तमपरिमेयम् ॥ 6-51-20 अभिभवत्यभिभूः ॥