अध्यायः 050

धृष्टद्युम्नेन क्रौञ्चव्यूहनिर्माणम् ॥ 1 ॥ सञ्जय उवाच 001
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ । 001a
भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा ॥ 001c
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् । 002a
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ 002c
शुचा परमया युक्तश्चिन्तयानः पराजयम् । 003a
वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ॥ 003c
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् । 004a
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥ 004c
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् । 005a
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥ 005c
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् । 006a
दृष्ट्वा विप्रद्रुतं सैन्यं समरे मार्गणाहतम् ॥ 006c
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे । 007a
वरुणः पाशभृद्वापि कुबेरो वा गदाधरः ॥ 007c
न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः । 008a
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवे ॥ 008c
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव । 009a
वनं यास्यामि वार्ष्णेय श्रेयो मे तत्र जीवितुम् ॥ 009c
न त्वेतान्पृथिवीपालान्दातुं भीष्माय मृत्यवे । 010a
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥ 010c
यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः । 011a
विनाशायोपगच्छन्ति तथा मे सैनिको जनः ॥ 011c
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । 012a
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ॥ 012c
मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात् । 013a
जीवितं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥ 013c
जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् । 014a
न घातयिष्यामि रणे मित्राणीमानि केशव ॥ 014c
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः । 015a
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥ 015c
किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् । 016a
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥ 016c
एको भीमः परं शक्त्या युध्यत्येव महाभुजः । 017a
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ 017c
गदया वीरघातिन्या यथोत्साहं महामनाः । 018a
करोत्यसुकरं कर्म रथाश्वनरपङ्क्तिषु ॥ 018c
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष । 019a
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥ 019c
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते । 020a
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥ 020c
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः । 021a
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥ 021c
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः । 022a
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥ 022c
स त्वं पश्य महाभाग योगेश्वर महारथम् । 023a
भीष्मं यः शमयेत्सङ्ख्ये दावाग्निं जलदो यथा ॥ 023c
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः । 024a
स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ते सबान्धवाः ॥ 024c
एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः । 025a
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ 025c
शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् । 026a
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ 026c
माशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि । 027a
यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनः ॥ 027c
अहं च प्रियकृद्राजन्सात्यकिश्च महायशाः । 028a
विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः ॥ 028c
तथैव सबलाश्चेमे राजानो राजसत्तम । 029a
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशाम्पते ॥ 029c
एष ते पार्षतो नित्यं हितकामः प्रिये रतः । 030a
सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ॥ 030c
शिखण्डी च महाबाहो भीष्मस्य निधनं किल । 031a
एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् । 031c
अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ॥ 031a
धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष । 032a
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥ 032c
भवान्सेनापतिर्मह्यं वासुदेवेन सम्मितः । 033a
कार्तिकेयो यथा नित्यं देवानामभवत्पुरा ॥ 033c
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ । 034a
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ॥ 034c
अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष । 035a
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ॥ 035c
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ । 036a
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ॥ 036c
अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा । 037a
रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम् ॥ 037c
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव । 038a
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ॥ 038c
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने । 039a
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ॥ 039c
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः । 040a
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ॥ 040c
तं यथावत्प्रतिव्यूहं परानीकविनाशनम् । 041a
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ 041c
यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा । 042a
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ॥ 042c
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः । 043a
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥ 043c
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः । 044a
आकाशग इवाकाशे गन्धर्वनगरोपमः ॥ 044c
नृत्यमान इवाभाति रथचर्यासु मारिष । 045a
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ॥ 045c
बभूव परमोपेतः सुमेरुरिव भानुना । 046a
शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः ॥ 046c
कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ । 047a
दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह ॥ 047c
अनूपकाः किराताश्च ग्रीवायां भरतर्षभ । 048a
पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा ॥ 048c
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः । 049a
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 049c
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः । 050a
पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह ॥ 050c
मारुता धेनुकाश्चैव तङ्गणाः परतङ्गणाः । 051a
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥ 051c
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः । 052a
अग्निवेशास्तुहुण्डाश्च मालवा दानभारयः ॥ 052c
शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः । 053a
नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ॥ 053c
रथानामयुतं पक्षौ शिरस्तु नियुतं तथा । 054a
पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ॥ 054c
ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः । 055a
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ॥ 055c
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः । 056a
जघनं पालयामास विराटः सह केकयैः ॥ 056c
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः । 057a
एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः ॥ 057c
सूर्योदयं त इच्छन्तः स्थिता युद्धाय दंशिताः । 058a
तेषामादित्यवर्णानि विमलानि महान्ति च । 058c
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ ॥ 058e

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे पञ्चाशोऽद्यायः ॥

6-50-19 आर्जवेन अकुटिलेन दिव्यास्त्रमायाहीनेन ॥ 6-50-25 अन्तर्मनाः विमनाः ॥ 6-50-31 निधनं निधनहेतुः ॥ 6-50-32 भाषितमुक्तम् ॥ 6-50-33 मह्यं मम ॥ 6-50-44 आकाशग इव पक्षीव ॥ 6-50-45 रथचर्यासु रथवर्त्मसु ॥ 6-50-46 परमोपेतः परा उत्कृष्टा चासौ मा लक्ष्मीश्चेति परमा तया उपेतः ॥