अध्यायः 049
शङ्खयुद्धवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
( श्वेते सेनापतौ तात सङ्ग्रामे निहते परैः । 001a
किमकुर्वन्महेष्वासाः पाञ्चालाः पाण्डवैः सह ॥ 001c
सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् । 002a
तदर्थं यततां चापि परेषां प्रपलायिनाम् ॥ 002c
मनः प्रीणाति मे वाक्यं जयं सञ्जय शृण्वतः । 003a
प्रत्युपायं चिन्तयन्तः सज्जनाः प्रस्रवन्ति मे ॥ 003c
स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा । 004a
कृतं वैरं सदा तेन पितुः पुत्रेण धीमता ॥ 004c
तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान्पुरा । 005a
सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति ॥ 005c
पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च । 006a
सपत्नान्सततं बाधन्नार्यवृत्तिमनुष्ठितः ॥ 006c
आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः । 007a
ततो युधिष्ठिरे भक्तः कथं सञ्जय सूदितः ॥) 007c
प्रक्षिप्तः सम्मतः क्षुद्रः पुत्रो मे पुरुषाधमः । 008a
न युद्धं रोचयेद्भीष्मो न चाचार्यः कथञ्चन ॥ 008c
न कृपो न च गान्धारी नाहं सञ्जय रोचये । 009a
न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः ॥ 009c
न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ । 010a
वार्यमाणो मया नित्यं गान्धार्या विदुरेण च ॥ 010c
जामदग्न्येन रामेण व्यासेन च महात्मना । 011a
दुर्योधनो युध्यमानो नित्यमेव हि सञ्जय ॥ 011c
कर्णस्य मतमास्थाय सौबलस्य च पापकृत् । 012a
दुःशासनस्य च तथा पाण्डवान्नान्वचिन्तयत् ॥ 012c
तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु सञ्जय । 013a
श्वेतस्य च विनाशेन भीष्मस्य विजयेन च ॥ 013c
सङ्क्रुद्धः कृष्णसहितः पार्थः किमकरोद्युधि । 014a
अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति ॥ 014c
स हि शूरश्च कौन्तेयः क्षिप्रकारी धनञ्जयः । 015a
मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति ॥ 015c
ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले । 016a
अमोघक्रोधसङ्कल्पं दृष्ट्वा वः किमभून्मनः ॥ 016c
तथैव वेदविच्छूरो ज्वलनार्कसमद्युतिः । 017a
इन्द्रास्त्रविदमेयात्मा प्रपतन्समितिञ्जयः ॥ 017c
वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः । 018a
सखड्गाक्षेपहस्तस्तु घोषं चक्रे महारथः ॥ 018c
स सञ्जय महाप्राज्ञो द्रुपदस्यात्मजो बली । 019a
धृष्टद्युम्नः किमकरोच्छ्वेते युधि निपातिते ॥ 019c
पुरा चैवापराधेन वधेन च चमूपतेः । 020a
मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम् ॥ 020c
तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च । 021a
न शान्तिमधिगच्छामि दुर्योदनकृतेन हि । 021c
कथं चाभून्महायुद्धं सर्वमाचक्ष्व सञ्जय ॥ 021e
सञ्जय उवाच 022
शृणु राजन्स्थिरो भूत्वा तवापनयनो महान् । 022a
न च दुर्योधने दोषमिमामाधातुमर्हसि ॥ 022c
गतोदके सेतुबन्धो यादृक्तादृङ्मतिस्तव । 023a
सन्दीप्ते भवने यद्वत्कूपस्य खननं तथा ॥ 023c
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे । 024a
तावकानां परेषां च पुनर्युद्धमवर्तत ॥ 024c
श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् । 025a
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ 025c
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव । 026a
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ 026c
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं युधि । 027a
महता रथसङ्घेन समन्तात्परिरक्षितः ॥ 027c
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति । 028a
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् ॥ 028c
तावकानां रथाः सप्त समन्तात्पर्यवारयन् । 029a
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 029c
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः । 030a
तथा रुक्मरथो राजन्पुत्रः शल्यस्य मानितः ॥ 030c
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः । 031a
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ 031c
नानाधातुविचित्राणि कार्मुकाणि महात्मनाम् । 032a
विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः ॥ 032c
ते तु बाणमयं वर्षं शङ्खमूर्ध्नि न्यपातयन् । 033a
निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ॥ 033c
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः । 034a
धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः ॥ 034c
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा । 035a
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ 035c
तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम् । 036a
सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ 036c
ततोऽर्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः । 037a
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ 037c
हाहाकारो महानासीद्योधानां युधि युध्यताम् । 038a
तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः ॥ 038c
अथ शल्यो गदापाणिरवतीर्य महारथात् । 039a
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ 039c
स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः । 040a
बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत ॥ 040c
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः । 041a
यैरन्तरीक्षं भूमिश्च सर्वतः समवस्तृता ॥ 041c
पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् । 042a
भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः ॥ 042c
उत्सृज्य समरे राजन्पाण्डवं सव्यसाचिनम् । 043a
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥ 043c
प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् । 044a
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ॥ 044c
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह । 045a
अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः ॥ 045c
मध्यन्दिने यथाऽऽदित्यं तपन्तमिव तेजसा । 046a
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ 046c
वीक्षाञ्चक्रुः समन्तात्ते पाण्डवा भयपीडिताः । 047a
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ 047c
सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता । 048a
सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपतेः ॥ 048c
हते विप्रद्रुते सैन्ये निरुत्साहे विमर्दिते । 049a
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ 049c
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । 050a
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 050c
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । 051a
जघान पाण्डवरथानादिश्यादिश्य भारत ॥ 051c
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः । 052a
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन ॥ 052c
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे । 053a
अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ ॥ 053c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे एकोनपञ्चाशोऽध्यायः ॥ ॥ इति प्रथमदिवसयुद्धम् ॥
6-49-51 एकायनीकुर्वन् एकमार्गाः कुर्वन् ॥