अध्यायः 048

श्वेतयुद्धम् ॥ 1 ॥ भीष्मेण श्वेतवधः ॥ 2 ॥ धृतराष्ट्र उवाच 001
एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति । 001a
कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ॥ 001c
भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः । 002a
सञ्जय उवाच 002
राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ॥ 002c
श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः । 003a
राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ॥ 003c
शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः । 004a
अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 004c
जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् । 005a
तत्तेऽहं सम्प्रवक्ष्यामि महावैशसमच्युत ॥ 005c
तावकानां परेषां च यथा युद्धमवर्तत । 006a
तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ॥ 006c
तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् । 007a
समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ॥ 007c
नुदन्समन्तात्समरे रविरुद्यन्यथा तमः । 008a
तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ॥ 008c
क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः । 009a
शिरांसि पातयामासुर्वीराणां शतशो रणे ॥ 009c
गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् । 010a
रथा रथेषु संसक्ता व्यदृश्यन्त विशाम्पते ॥ 010c
एके रथं पर्यवहंस्तुरगाः सतुरङ्गमम् । 011a
युवानं निहतं वीरं लम्बमानं सकार्मुकम् ॥ 011c
उदीर्णाश्च हया राजन्वहन्तस्तत्रतत्र ह । 012a
बद्धखड्गनिषङ्गाश्च विध्वस्तशिरसो हताः ॥ 012c
शतशः पतिता भूमौ वीरशय्यासु शेरते । 013a
परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ॥ 013c
उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् । 014a
पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ॥ 014c
सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः । 015a
विस्रब्धहतवीराश्च शतशः परिपीडिताः ॥ 015c
तेनतेनाभ्यधावन्त विसृजन्तश्च भारत । 016a
मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ॥ 016c
सरथा रथिनश्चापि विमृद्नन्तः समन्ततः । 017a
स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ॥ 017c
हतसारथिरप्युच्चैः पपात काष्ठवद्रथः । 018a
युध्यमानस्य सङ्ग्रामे व्यूढे रजसि चोत्थिते ॥ 018c
धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः । 019a
गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ॥ 019c
युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात् । 020a
अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ॥ 020c
शब्दायमाने सङ्ग्रामे पटहे कर्णदारिणि । 021a
युध्यमानस्य सङ्ग्रामे कुर्वतः पौरुषं स्वकम् ॥ 021c
नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् । 022a
भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ॥ 022c
परस्परेषां वीराणां मनांसि समकम्पयन् । 023a
तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ॥ 023c
पिता पुत्रं च समरे नाभिजानाति कश्चन । 024a
चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ॥ 024c
आक्षिप्तः स्यन्दनाद्वीरः ससारथिरजिह्मगैः । 025a
एवं च समरे सर्वे वीराश्च विरथीकृताः ॥ 025c
तेन तेन स्म दृश्यन्ते धावमानाः समन्ततः । 026a
गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ॥ 026c
अहतः कोपि नैवासीद्भीष्मे निघ्नति शात्रवान् । 027a
श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ॥ 027c
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः । 028a
चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ॥ 028c
साङ्गदा बाहवश्चैव धनूंषि च समन्ततः । 029a
रथेषां रथचक्राणि तूणीराणि युगानि च ॥ 029c
छत्राणि च महार्हाणि पताकाश्च विशाम्पते । 030a
हयौघाश्च रथौघाश्च नरौघाश्चैव भारत ॥ 030c
वारणाः शतशश्चैव हताः श्वेतेन भारत । 031a
वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ॥ 031c
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः । 032a
शरपातमतिक्रम्य कुरवः कुरुनन्दन ॥ 032c
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः । 033a
अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ॥ 033c
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः । 034a
आददान इव प्राणान्सविता शिशिरात्यये ॥ 034c
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान् । 035a
स मुमोच महेष्वासः शरसङ्घाननेकशः ॥ 035c
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् । 036a
ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ॥ 036c
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् । 037a
तमेवमुपलक्ष्यैको हृष्टः पुष्टः परन्तप ॥ 037c
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन् । 038a
जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ॥ 038c
पातयामास सैन्यानि पाण्डवानां विशाम्पते । 039a
प्रहरन्तमनीकानि पिता देवव्रतस्तव ॥ 039c
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात् । 040a
स भीष्मं शरजालेन महता समवाकिरत् ॥ 040c
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् । 041a
तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ॥ 041c
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः । 042a
अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ॥ 042c
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ । 043a
एकाह्ना निर्दहेद्भीष्मः पाण्डवानामनीकिनीम् ॥ 043c
शरैः परमसङ्क्रुद्धो यदि श्वेतो न पालयेत् । 044a
पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ॥ 044c
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत् । 045a
ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ॥ 045c
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे । 046a
दुर्मुखः कृतवर्मा च कृपः शल्यो विशाम्पतिः ॥ 046c
भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः । 047a
दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ॥ 047c
पाण्डवानामनीकानि वध्यमानानि संयुगे । 048a
श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ॥ 048c
नाशयामास वेगेन वायुर्वृक्षानिवौजसा । 049a
द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ॥ 049c
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः । 050a
तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ॥ 050c
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ । 051a
अन्योन्यं तु महाराज परस्परवधैषिणौ ॥ 051c
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः । 052a
पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी ॥ 052c
तरसा वारयामास मत्तो मत्तमिव द्विपम् । 053a
श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ॥ 053c
विव्याध पञ्चविंशत्या तदद्भुतमिवाभवत् । 054a
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ॥ 054c
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः । 055a
वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ॥ 055c
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः । 056a
सम्प्रहस्य ततः श्वेतः सृक्किणी परिसंलिहन् ॥ 056c
घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः । 057a
सन्धाय विशिखं चैव शरं लोमप्रवाहिनम् ॥ 057c
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः । 058a
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ॥ 058c
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम् । 059a
पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ॥ 059c
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः । 060a
ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ॥ 060c
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समन्ततः । 061a
मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ॥ 061c
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः । 062a
राज्ञस्तु वचनं श्रुत्वा त्वरमाणा महारथाः ॥ 062c
बलेन चतुरङ्गेण गाङ्गेयमन्वपालयन् । 063a
बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ॥ 063c
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः । 064a
त्वरमाणास्त्वराकाले परिवार्य समन्ततः ॥ 064c
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन् । 065a
तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ॥ 065c
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् । 066a
स निवार्य तु तान्सर्वान्केसरी कुञ्जरानिव ॥ 066c
महता शरवर्षेण भीष्मस्य धनुराच्छिनत् । 067a
ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ॥ 067c
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः । 068a
ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ॥ 068c
विव्याध समरे राजन्सर्वलोकस्य पश्यतः । 069a
ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ॥ 069c
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा । 070a
निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ॥ 070c
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् । 071a
हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ॥ 071c
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव । 072a
ध्वजमुन्मथितं दृष्ट्वा तां च सेनां निवारिताम् ॥ 072c
श्वेतं प्रति महाराज व्यसृजत्सायकान्बहून् । 073a
तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ॥ 073c
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव । 074a
उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ॥ 074c
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम् । 075a
तत्र सन्धाय विपुलान्भल्लान्सप्त शिलाशितान् ॥ 075c
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः । 076a
ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ॥ 076c
शिरश्चिच्छेद भल्लेन सङ्क्रुद्धोऽलघुविक्रमः । 077a
हताश्वसूतात्स रथादवप्लुत्य महाबलः ॥ 077c
अमर्षवशमापन्नो व्याकुलः समपद्यत । 078a
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ॥ 078c
ताडयामास निशितैः शरसङ्घैः समन्ततः । 079a
स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ॥ 079c
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् । 080a
ततः शक्तिं रणे श्वेतो जग्राहोग्रां महाभयाम् ॥ 080c
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् । 081a
अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ॥ 081c
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव । 082a
एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ॥ 082c
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम् । 083a
पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ॥ 083c
हाहाकारो महानासीत्पुत्राणां ते विशाम्पते । 084a
दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ॥ 084c
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् । 085a
अपतत्सहसा राजन्महोल्केव नभस्तलात् ॥ 085c
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् । 086a
असम्भ्रान्तस्तदा राजन्पिता देवव्रतस्तव ॥ 086c
अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः । 087a
उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ॥ 087c
उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ । 088a
शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ॥ 088c
कालोपहतचेतास्तु कर्तव्यं नाभ्यजानत । 089a
क्रोधसम्मूर्च्छितो राजन्वैराटिः प्रहसन्निव ॥ 089c
गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति । 090a
क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ॥ 090c
भीष्मं समिदुद्राव जलौघ इव पर्वतम् । 091a
तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ॥ 091c
प्रहारविप्रमोक्षार्थं सहसा धरणीङ्गतः । 092a
श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ॥ 092c
रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः । 093a
तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ॥ 093c
सध्वजः सह सूतेन साश्वः सयुगबन्धुरः । 094a
विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमाः ॥ 094c
अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः । 095a
ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ॥ 095c
शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव । 096a
एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ॥ 096c
आकाशादीरितां दिव्यामात्मनो हितसम्भवाम् । 097a
भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ॥ 097c
एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना । 098a
एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ॥ 098c
सम्प्रहृष्टमना भूत्वा वधे तस्य मनो दधे । 099a
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ॥ 099c
सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः । 100a
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 100c
कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान् । 101a
एतानापततः सर्वान्द्रोणशल्यकृपैः सह ॥ 101c
अवारयदमेयात्मा वारिवेगानिवाचलः । 102a
स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ॥ 102c
श्वेतः खड्गमथाकृष्य भीष्मस्य धनुराच्छिनत् । 103a
तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ॥ 103c
देवदूतवचः श्रुत्वा वधे तस्य मनो दधे । 104a
ततः प्रचरमाणस्तु पिता देवव्रतस्तव ॥ 104c
अन्यत्कार्मुकमादाय त्वरमाणो महारथः । 105a
क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ॥ 105c
पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः । 106a
वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैः ॥ 106c
अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् । 107a
आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ॥ 107c
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः । 108a
अभिमन्युं च समरे पिता देवव्रतस्तव ॥ 108c
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः । 109a
सात्यकिं च शतेनाजौ भरतानां पितामहः ॥ 109c
धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः । 110a
तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ॥ 110c
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे । 111a
ततः शरं मृत्युसमं भारसाधनमुत्तमम् ॥ 111c
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम् । 112a
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ॥ 112c
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः । 113a
स तस्य कवचं भित्वा हृदयं चामितौजसः ॥ 113c
जगाम धरणीं बाणो महाशनिरिव ज्वलन् । 114a
अस्तं गच्छन्यथाऽऽदित्यः प्रभामादाय सत्वरः ॥ 114c
एवं जीवितमादाय श्वेतदेहाज्जगाम ह । 115a
तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ॥ 115c
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम् । 116a
अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ॥ 116c
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः । 117a
ततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ॥ 117c
वादित्रनिनदैर्घोरैर्नृत्यति स्म समन्ततः । 118a
तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ॥ 118c
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः । 119a
ततो धनञ्जयो राजन्वार्ष्णेयश्चापि सर्वशः ॥ 119c
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ । 120a
ततोऽवहारः सैन्यानां तव तेषां च भारत ॥ 120c
तावकानां परेषां च नर्दतां च मुहुर्मुहुः । 121a
पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः । 121c
चिन्तयन्तो वधं घोरं द्वैरथेन परन्तपाः ॥ ॥ 121e

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ॥