अध्यायः 047
उत्तरकुमारवधः ॥ 1 ॥
सञ्जय उवाच 001
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे । 001a
वर्तमाने तथा रौद्रे महावीरवरक्षये ॥ 001c
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः । 002a
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ 002c
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः । 003a
पाण्डवानामनीकानि विजगाहे महारथः ॥ 003c
चेदिकाशिकरूषेषु पञ्चालेषु च भारत । 004a
भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ॥ 004c
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् । 005a
निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ॥ 005c
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ । 006a
भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥ 006c
अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः । 007a
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ 007c
जाम्बूनदविचित्रेण कर्णिकारेण केतुना । 008a
अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ॥ 008c
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा । 009a
भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ॥ 009c
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः । 010a
विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रपितामहम् ॥ 010c
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च । 011a
ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ॥ 011c
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना । 012a
जहार सारथेः कायाच्छिरः सन्नतपर्वणा ॥ 012c
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् । 013a
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥ 013c
जघान परमक्रुद्धो नृत्यन्निव महारथः । 014a
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥ 014c
लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः । 015a
सत्ववन्तममन्यन्त साक्षादिव धनञ्जयम् ॥ 015c
तस्य लाघवमार्गस्थमलातसदृशप्रभम् । 016a
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥ 016c
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः । 017a
विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ 017c
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः । 018a
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ 018c
तथैव कृतवर्मा च कृपः शल्यश्च मारिष । 019a
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥ 019c
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः । 020a
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥ 020c
ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः । 021a
ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् ॥ 021c
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत । 022a
यतमानस्य समरे भीष्ममर्दयतः शरैः ॥ 022c
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् । 023a
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥ 023c
ततो ध्वजमामोघेषुर्भीष्मस्य नवभिः शरैः । 024a
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ 024c
स राजतो महास्कन्धस्तालो हेमविभूषितः । 025a
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥ 025c
तं तु सौभद्रविशिखैः पातितं भरतर्षभ । 026a
दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन् ॥ 026c
अथ भीष्मो महास्त्राणि दिव्यानि सुबहूनि च । 027a
प्रादुश्चक्रे महारौद्रे रणे तस्मिन्महाबलः ॥ 027c
ततः शरसहस्रेण सौभद्रं प्रतितामहः । 028a
अवाकिरदमेयात्मा तदद्भुतमिवाभवत् ॥ 028c
ततो दश महेष्वासाः पाण्डवानां महारथाः । 029a
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥ 029c
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः । 030a
भीमश्च केकयाश्चैव सात्यकिश्च विशाम्पते ॥ 030c
तेषां जवेनापततां भीष्मः शान्तनवो रणे । 031a
पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः ॥ 031c
पूर्णायतविसृष्टेन क्षुरेण निशितेन च । 032a
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥ 032c
जाम्बूनदमयः श्रीमान्केसरी स नरोत्तम । 033a
पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥ 033c
ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे । 034a
कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥ 034c
प्रगृहीताग्रहस्तेकन वैराटिरपि दन्तिना । 035a
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ 035c
तस्य वारणराजस्य जवेनापततो रथे । 036a
शल्यो निवारयामास वेगमप्रतिमं शरैः ॥ 036c
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः । 037a
पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ 037c
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् । 038a
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥ 038c
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः । 039a
स पपात गजस्कन्धात्परमुक्ताङ्कुशतोमरः ॥ 039c
असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात् । 040a
तस्य वारणराजस्य चिच्छेदाथ महाकरम् ॥ 040c
भिन्नमर्मा शरशतैश्छिन्नहस्तः सवारणः । 041a
भीममार्तस्वरं कृत्वा पपात च ममार च ॥ 041c
एतदीदृशकं कृत्वा मद्रराजो नराधिप । 042a
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 042c
उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा । 043a
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ 043c
श्वेतः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव । 044a
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ 044c
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली । 045a
महता रथवंशेन समन्तात्परिवारितः ॥ 045c
मुञ्चन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति । 046a
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् ॥ 046c
तावकानां रथाः सप्त समन्तात्पर्यवारयन् । 047a
मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 047c
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः । 048a
तथा रुक्मरथो राजञ्शल्यपुत्रः प्रतापवान् ॥ 048c
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः । 049a
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ 049c
नानावर्णविचित्राणि धनूंषि च महात्मनाम् । 050a
विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः ॥ 050c
ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन् । 051a
निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ॥ 051c
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः । 052a
धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः ॥ 052c
निकृत्तान्येव तानि स्म समदृश्यन्त भारत । 053a
ततस्ते तु निमेषार्धात्प्रत्यपद्यन्धनूंषि च ॥ 053c
सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन् । 054a
ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः । 054c
निचकर्त महाबाहुस्तेषां चापानि धन्विनाम् ॥ 054e
ते निकृत्तमहाचापास्त्वरमाणा महारथाः । 055a
रथशक्तीः परामृश्य विनेदुर्भैरवान्रवान् ॥ 055c
अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति । 056a
ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः ॥ 056c
अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित् । 057a
ततः समादाय शरं सर्वकायविदारणम् ॥ 057c
प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति । 058a
तस्य देहे निपतितो बाणो वज्रातिगो महान् ॥ 058c
ततो रुक्मरथो राजन्सायकेन दृढाहतः । 059a
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥ 059c
तं विसञ्ज्ञं विमनसं त्वरमाणस्तु सारथिः । 060a
अपोवाह नसम्भ्रान्तः सर्वलोकस्य पश्यतः ॥ 060c
ततोऽन्यान्षट् समादाय श्वेतो हेमविभूषितान् । 061a
तेषां षण्णां महाबाहुर्ध्वजशीर्षाण्यपातयत् ॥ 061c
हयांश्च तेषां निर्भिद्य सारथींश्च परन्तप । 062a
शरैश्चैतान्समाकीर्य प्रायाच्छल्यरथं प्रति ॥ 062c
ततो हलहलाशब्दस्तव सैन्येषु भारत । 063a
दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति ॥ 063c
ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः । 064a
वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति ॥ 064c
मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् । 065a
ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ॥ 065c
तावकानां परेषां च व्यतिषक्तरथद्विपम् । 066a
सौभद्रे भीमसेने च सात्यकौ च महारथे ॥ 066c
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते । 067a
एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह । 067c
ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः ॥ ॥ 067e
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ॥
6-47-7 पिशङ्गैः पिङ्गलैः ॥ 6-47-8 कर्णिकारेण कर्णिकारद्रुमोपमेन ॥ 6-47-9 अनुरथैः पार्ष्णिगोपादिभिः ॥ 6-47-11 पूर्णायतविसृष्टेन आकर्णाकृष्टत्यक्तेन । प्रणिहितेन प्रेरितेन ॥ 6-47-36 रथे रथोपरि ॥ 6-47-43 वैराटिः शङ्खः ॥ 6-47-47 सप्तचत्वारिंशोऽध्यायः ॥