अध्यायः 046
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् । 001a
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥ 001c
न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् । 002a
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः ॥ 002c
न मातुलं च स्वस्रीयो न सखायं सखा तथा । 003a
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ 003c
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः । 004a
अभज्यन्त युगैरेव युगानि भरतर्षभ ॥ 004c
रथेषाश्च रतेषाभिः कूबरा रथकूबरैः । 005a
सङ्गतैः सहिताः केचित्परस्परजिघांसवः ॥ 005c
न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः । 006a
प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ॥ 006c
बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम् । 007a
सतोरणपताकैश्च वारणा वरवारणैः ॥ 007c
अभिसृत्य महाराज वेगवद्भिर्महागजैः । 008a
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥ 008c
अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः । 009a
अप्रभिन्नाः प्रभिन्नानां सम्मुखाभिमुखा ययुः ॥ 009c
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः । 010a
क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ॥ 010c
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः । 011a
ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः ॥ 011c
प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः । 012a
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥ 012c
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः । 013a
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः ॥ 013c
गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः । 014a
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलै शितैः ॥ 014c
प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः । 015a
व्यदृश्यन्त महाराज परस्परजिघांसवः ॥ 015c
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः । 016a
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥ 016c
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः । 017a
सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ 017c
गदामुसलरुग्णानां भिन्नानां च वरासिभिः । 018a
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥ 018c
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् । 019a
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥ 019c
हयैरपि हयारोहाश्चामरापीडधारिभिः । 020a
हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ॥ 020c
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः । 021a
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ॥ 021c
अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथात् । 022a
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ 022c
बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः । 023a
रथी जघान सम्प्राप्य बाणगोचरमागतान् ॥ 023c
नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः । 024a
पादैरेव विमृद्नन्ति मत्ताः कनकभूषणाः ॥ 024c
पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः । 025a
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥ 025c
साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः । 026a
सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति ॥ 026c
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः । 027a
रथौघानभिमृद्नन्तः सध्वजानभिचक्रमुः ॥ 027c
पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः । 028a
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ 028c
अश्वारोहैश्च समरे हस्तिसादिभिरेव च । 029a
प्रतिमानेषु गात्रेषु पार्श्वेष्वभि च वारणान् । 029c
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ॥ 029e
नराश्वकायान्निर्भिद्य लौहानि कवचानि च । 030a
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ॥ 030c
महोल्काप्रतिमा घोरास्तत्र तत्र विशाम्पते । 031a
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ॥ 031c
विकोशैर्विमलैः खड्गैरभिजध्नुः परान्रणे । 032a
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ॥ 032c
विदर्शयन्तः सम्पेतुः खड्गचर्मपरश्वथैः । 033a
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ॥ 033c
विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः । 034a
शङ्कुभिर्दारिताः केचित्सम्भिन्नाश्च परश्वथैः ॥ 034c
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरङ्गमैः । 035a
रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः ॥ 035c
व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान् । 036a
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ॥ 036c
मातुलान्भागिनेयांश्च परानपि च संयुगे । 037a
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ॥ 037c
बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः । 038a
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ 038c
तृषापरिगताः केचिदल्पसत्वा विशाम्पते । 039a
भूमौ निपतिताः सङ्ख्ये मृगयाञ्चक्रिरे जलम् ॥ 039c
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत । 040a
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् ॥ 040c
अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् । 041a
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष । 041c
तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम् ॥ 041e
आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् । 042a
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ति च परस्परम् ॥ 042c
अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः । 043a
निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ॥ 043c
अन्ये च विरथाः शूरा रथमन्यस्य संयुगे । 044a
प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः । 044c
अशोभन्त महाराज सपुष्पा इव किंशुकाः ॥ 044e
सम्बभूवुरनीकेषु बहवो भैरवस्वनाः । 045a
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ॥ 045c
निजघान पिता पुत्रं पुत्रश्च पितरं रणे । 046a
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥ 046c
सखा सखायं च तथा सम्बन्धी बान्धवं तथा । 047a
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ 047c
वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके । 048a
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥ 048c
केतुना पञ्चतारेण तालेन भारतर्षभ । 049a
राजतेन महाबाहुरुच्छ्रितेन महारथे । 049c
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥ ॥ 049e
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे षट्चत्वारिंशोऽध्यायः ॥
6-46-1 प्रयुद्धानि युद्धं कृतवन्ति ॥ 6-46-2 जज्ञे ज्ञातवान् ॥ 6-46-3 आविष्टा इव भूतादिना गृहीता इव ॥ 6-46-4 युगानि अश्वस्कन्धार्पितानि दारूणि ॥ 6-46-5 रथेषा रथदण्डः । कूबरो युगकीलः । सङ्गतैः सम्मुखागतैः ॥ 6-46-6 प्रभिग्नाक्ष्योतन्मदाः ॥ 6-46-7 विषाणैर्दन्तैः तोरणानि चतुःस्तम्भमण्डपाकारस्य गजपल्याणस्य अम्बारीति भाषया प्रसिद्धस्य । द्वाराणि पताकाश्च तत्रैव स्तम्भशेखरस्थाः ॥ 6-46-9 सम्मुखाभिमुखाः अन्योन्यसम्मुखा इत्यर्थः ॥ 6-46-17 अवक्षिप्तावधूतानाम् अधोमुखं पातितानां परेषां मर्मसु पततामसीनामिति सम्बन्धः ॥ 6-46-19 प्रेतानां नारकाणाम् ॥ 6-46-26 सहसा बलेन ॥ 6-46-28 पुंस्त्वाद्वीर्यवत्त्वात् । अतिमदत्वादुद्भिन्नमदत्वात् ॥ 6-46-29 प्रतिमानेषु ललाटेषु ॥ 6-46-30 शक्त्यः शक्तयः 6-46-43 निष्कूजा निःशब्दाः ॥