अध्यायः 045

कुरुपाण्डवसेनयोर्द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशाम्पते । 001a
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥ 001c
कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् । 002a
सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ॥ 002c
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह । 003a
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥ 003c
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ । 004a
पत्तीनां पादशब्दश्च वाजिनां च महास्वनः ॥ 004c
तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः । 005a
घण्टाशब्दश्च नागानामन्योन्यमभिधावताम् ॥ 005c
तस्मिन्समुदिते शब्दे तुमुले रोमहर्षणे । 006a
बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ॥ 006c
ते मनः क्रूरमाधाय समभित्यक्तजीविताः । 007a
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ 007c
अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् । 008a
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥ 008c
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् । 009a
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥ 009c
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ । 010a
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥ 010c
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि । 011a
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात् ॥ 011c
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम् । 012a
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् ॥ 012c
आनर्च्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् । 013a
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ ॥ 013c
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ । 014a
अभिमन्युर्महेष्वासं बृहद्बलमयोधयत् ॥ 014c
ततः कोसलराजाऽसावभिमन्योर्विशाम्पते । 015a
ध्वजं चिच्छेद समरे सारथिं च व्यपातयत् ॥ 015c
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ । 016a
बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ 016c
अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः । 017a
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥ 017c
अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् । 018a
मानिनं समरे दृप्तं कृतवैरं महारथम् ॥ 018c
भीमसेनस्तव सुतं दुर्योधनमयोधयत् । 019a
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ॥ 019c
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे । 020a
तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ ॥ 020c
विस्मयः सर्वभूतानां समपद्यत भारत । 021a
दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम् ॥ 021c
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः । 022a
तस्य माद्रीसुतः केतुं सशरं च शरासनम् ॥ 022c
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत । 023a
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 023c
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे । 024a
तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत् ॥ 024c
दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम् । 025a
विव्याध शरवर्षेण यतमानं महाहवे ॥ 025c
सहदेवस्ततो वीरो दुर्मुखस्य महारणे । 026a
शरेण भृशतीक्ष्णेन पातयामास सारथिम् ॥ 026c
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ । 027a
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥ 027c
युधिष्टिरः स्वयं राजा मद्रराजानमभ्ययात् । 028a
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥ 028c
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः । 029a
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥ 029c
ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः । 030a
छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 030c
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत । 031a
तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् ॥ 031c
त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् । 032a
शरं चैव महाघोरं कालदण्डमिवापरम् ॥ 032c
प्रेषयामास समरे सोऽस्य काये न्यमज्जत । 033a
अथान्यद्धनुरादाय सायकांश्च चतुर्दश ॥ 033c
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे । 034a
तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ॥ 034c
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि । 035a
प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत् ॥ 035c
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् । 036a
सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥ 036c
तयोस्तदभवद्युद्धं घोररूपं विशाम्पते । 037a
दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव ॥ 037c
बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशाम्पते । 038a
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥ 038c
बाह्लीकस्तु रणे राजन्धृष्टकेतुममर्षणः । 039a
शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत् ॥ 039c
चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः । 040a
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥ 040c
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः । 041a
समीयतुः सुसङ्क्रुद्धावङ्गारकबुधाविव ॥ 041c
राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः । 042a
अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥ 042c
घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् । 043a
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥ 043c
अलम्बुसस्तु समरे भैमसेनिं महाबलम् । 044a
बहुधा दारयामास शरैः सन्नतपर्वभिः ॥ 044c
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ । 045a
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ 045c
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली । 046a
अश्वत्थामा ततः क्रुद्धः शिखण्डिनमुपस्थितम् ॥ 046c
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् । 047a
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥ 047c
सायकेन सुपीतेन तीक्ष्णेन निशितेन च । 048a
तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥ 048c
भगदत्तं रणे शूरं विराटो वाहिनीपतिः । 049a
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥ 049c
विराटो भगदत्तं तु शरवर्षेण भारत । 050a
अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् ॥ 050c
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् । 051a
छादयामास समरे मेघः सूर्यमिवोदितम् ॥ 051c
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ । 052a
तं कृपः शरवर्षेण च्छादयामास भारत ॥ 052c
गौतमं कैकयः क्रुद्धः शरवृष्ट्याऽभ्यपूरयत् । 053a
तावन्योन्यं हयान्हत्वा धनुश्छित्वा च भारत ॥ 053c
विरथावसियुद्धाय समीयतुरमर्षणौ । 054a
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥ 054c
द्रुपदस्तु ततो राजन्सैन्धवं वै जयद्रथम् । 055a
अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परन्तपः ॥ 055c
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः । 056a
ताडयामास समरे स च तं प्रत्यविध्यत ॥ 056c
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् । 057a
ईक्षणप्रीतिजननं शुक्राङ्गारकयोरिव ॥ 057c
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् । 058a
अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ॥ 058c
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः । 059a
सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥ 059c
सुशर्माणं नरव्याघ्रश्चेकितानो महारथः । 060a
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी ॥ 060c
सुशर्मा तु महाराज चेकितानं महारथम् । 061a
महता शरवर्षेण वारयामास संयुगे ॥ 061c
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे । 062a
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥ 062c
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी । 063a
अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम् ॥ 063c
यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः । 064a
व्यदारयत सङ्ग्रामे मघवानिव दानवम् ॥ 064c
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे । 065a
व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः ॥ 065c
सुदक्षिणं तु राजेन्द्र काम्भोजानां महारथम् । 066a
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥ 066c
सुदक्षिणस्तु समरे साहदेविं महारथम् । 067a
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥ 067c
श्रुतकर्मा ततः क्रुद्धः काम्भोजानां महारथम् । 068a
शरैर्बहुभिरानर्च्छद्दारयन्निव सर्वशः ॥ 068c
इरावानथ सङ्क्रुद्धः श्रुतायुषमरिन्दमम् । 069a
प्रत्युद्ययौ रणे यत्तो यत्तरूपं परन्तपः ॥ 069c
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः । 070a
ननाद बलवान्नादं तत्सैन्यं प्रत्यपूरयत् ॥ 070c
श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान् । 071a
निजघान गदाग्रेण ततो युद्धमवर्तत ॥ 071c
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् । 072a
ससेनं ससुतं वीरं संससज्जतुराहवे ॥ 072c
तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् । 073a
अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह ॥ 073c
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् । 074a
कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत् ॥ 074c
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः । 075a
स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥ 075c
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष । 076a
ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥ 076c
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् । 077a
उत्तरं योधयामास विव्याध निशितैः शरैः ॥ 077c
उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः । 078a
चेदिराट् समरे राजन्नुलूकं समभिद्रवत् ॥ 078c
तथैव शरवर्षेण उलूकं समविद्ध्यत । 079a
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥ 079c
तयोर्युद्धं समभवद्घोररूपं विशाम्पते । 080a
दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ ॥ 080c
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् । 081a
पदातीनां च समरे तव तेषां च सङ्कुले ॥ 081c
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । 082a
तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन ॥ 082c
गजो गजेन समरे रथिनं च रथी ययौ । 083a
अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम् ॥ 083c
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत । 084a
शूराणां समरे तत्र समासाद्येतरेतरम् ॥ 084c
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः । 085a
प्रेक्षन्त तद्रणं घोरं देवासुरसमं भुवि ॥ 085c
ततो दन्तिसहस्राणि र्थानां चापि मारिष । 086a
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥ 086c
तत्रतत्र प्रदृश्यन्ते रथवारणपत्तयः । 087a
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥ ॥ 087c

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः ॥

6-45-1 पूर्वाह्णे पूर्वभागे ॥ 6-45-5 तोत्रं गजदमनं वेणुकाख्यं वेणुवुध्नसमाकारम् ॥ 6-45-13 आनर्च्छतुः पीडितवन्तौ । तक्षमाणौ तनूकुर्वाणौ ॥ 6-45-14 पुष्पैः शबलौ विचित्रौ ॥ 6-45-17 एकेन प्राष्णि पृष्ठगोपं एकेन सारथिमिति च ॥ 6-45-23 क्षुद्रकाणां बाणविशेषाणाम् ॥ 6-45-31 परासुकरणं मारणसाधनम् ॥ 6-45-36 वीरः शङ्खः । जत्रुदेशे अंससन्धौ ॥ 6-45-38 धृष्टकेतुः शिशुपालसुतः ॥ 6-45-44 सन्नतपर्वभिः अलक्षितग्रन्थिभिः ॥ 6-45-48 तीक्ष्णेन सूक्ष्मधारेण । निशिते शाणोल्लीढेन । मृधे सङ्ग्रामे ॥ 6-45-58 तुभ्यं तव । सुतसोमं भैमसेनिम् ॥ 6-45-60 चेकितानो यादवः ॥ 6-45-69 इरावानर्जुनपुत्रः ॥ 6-45-72 संससज्जतुः संसक्तावभूताम् ॥ 6-45-81 द्वन्द्वं द्वयोर्द्वयोर्युद्धम् ॥ 6-45-86 विपरीतम् अतीतक्रमम् ॥