अध्यायः 044
कुरुपाण्डवसेनयोर्युद्धारम्भः ॥ 1 ॥
धृतराष्ट्र उवाच 001
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । 001a
के पूर्वं प्राहरंस्तत्र कुरवःक पाण्डवा नु किम् ॥ 001c
सञ्जय उवाच 002
भ्रातृभिः सहितो राजन्पुत्रो दुःशासनस्तव । 002a
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ 002c
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः । 003a
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥ 003c
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः । 004a
भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः ॥ 004c
उभयोः सेनयोर्ह्यासंस्ततस्तेऽस्मान्समाद्रवन् । 005a
वयं तान्प्रतिनर्दन्तस्तदाऽऽसीत्तुमुलं महत् ॥ 005c
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः । 006a
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना ॥ 006c
नरेन्द्र नागाश्वरथाकुलानामभ्यागतानामशिवे मुहूर्ते । 007a
बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥ 007c
तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे । 008a
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥ 008c
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् । 009a
सिंहनादं च सैन्यानां भीससेनरवोऽभ्यभूत् ॥ 009c
हयानां हेषमाणानामनीकेषु सहस्रशः । 010a
सर्वानभ्यभवच्चब्दान्भीमस्य नदतः स्वनः ॥ 010c
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः । 011a
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥ 011c
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः । 012a
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥ 012c
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् । 013a
विभीषयंस्तव सुतान्भीमसेनः समभ्ययात् ॥ 013c
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् । 014a
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥ 014c
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः । 015a
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः ॥ 015c
विविंशतिश्चित्रसेनो विकर्णश्च महारथः । 016a
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥ 016c
महाचापानि धुन्वन्तो मेघा इव सविद्युतः । 017a
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥ 017c
अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः । 018a
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 018c
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः । 019a
वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥ 019c
तस्मिन्प्रथमसङ्ग्रामे भीमज्यातलनिःस्वने । 020a
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 020c
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ । 021a
निमित्तवेधिनां चैव शरानुत्सृजतां भृशम् ॥ 021c
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा । 022a
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥ 022c
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत । 023a
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥ 023c
ततस्ते जातसंरम्भाः परस्परकृतागसः । 024a
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥ 024c
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले । 025a
शुशुभाते रणेऽतीव पटे चित्रार्पिते इव ॥ 025c
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः । 026a
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥ 026c
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः । 027a
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥ 027c
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः । 028a
अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः ॥ 028c
प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि । 029a
नात्र स्वेषां परेषां वा विशेषः समदृश्यत ॥ 029c
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये । 030a
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥ ॥ 030c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥
6-44-6 महान् समुच्छ्रयः सम्प्रहारो यत्र ॥ 6-44-9 अभ्यभूत् अभिभूतवान् ॥ 6-44-14 सोदर्याः राजानुजाः ॥ 6-44-21 निमित्तं लक्ष्यम् ॥ 6-44-25 पटे इति सप्तम्यन्तम् ॥ 6-44-28 सैन्येन सेनाभवेन ॥ 6-44-30 अति अतिक्रम्य ॥