अध्यायः 043
युधिष्ठिरेण रथादवरुह्य भीष्मद्रोणाद्यभिवादनपूर्वकं तेभ्यो जयाशीर्ग्रहणम् ॥ 1 ॥ युधिष्ठिरे पुनर्भ्रातृभिः सह रथारूढे सन्नाहभेरीनादनम् ॥ 2 ॥
वैशम्पायन उवाच 001
गीता सुगीता कर्तव्या किमन्यैः शास्त्रसङ्ग्रहैः । 001a
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ 001c
सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः । 002a
सर्वतीर्थमयी गङ्गा सर्वदेवमयो मनुः ॥ 002c
गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते । 003a
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥ 003c
षट्शतानि सविंशानि श्लोकानां प्राह केशवः । 004a
अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः ॥ 004c
धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते । 005a
भारतामृतसर्वस्वगीताया मथितस्य च । 005c
सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् ॥ 005e
सञ्जय उवाच 006
ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् । 006a
पुनरेव महानादं व्यसृजन्त महारथाः ॥ 006c
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः । 007a
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् ॥ 007c
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः । 008a
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥ 008c
तथा देवाः सगन्धर्वाः पितरश्च जनाधिप । 009a
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ॥ 009c
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् । 010a
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ॥ 010c
'ते सेने स्तिमिते सज्जे वीक्षमाणे परस्परम् । 011a
गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम् ॥ 011c
एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि । 012a
चित्रे पट इवालेख्ये दर्शनीयतरे शुभे ॥' 012c
ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते । 013a
ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप ॥ 013c
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् । 014a
अवरुह्य रथात्क्षिप्रं पद्भ्यामेव कृताञ्जलिः ॥ 014c
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः । 015a
वाग्यतः प्रययौ धीरः प्राङ्मुखो रिपुवाहिनीम् ॥ 015c
तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः । 016a
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥ 016c
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् । 017a
तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः ॥ 017c
अर्जुन उवाच 018
किं ते व्यवसितं राजन्यदस्मानपहाय वै । 018a
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥ 018c
भीमसेन उवाच 019
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः । 019a
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥ 019c
नकुल उवाच 020
एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत । 020a
भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥ 020c
सहदेव उवाच 021
अस्मिन्रणसमूहे वै वर्तमाने महाभये । 021a
उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप ॥ 021c
सञ्जय उवाच 022
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः । 022a
नोवाच वाग्यतः किञ्चिद्गच्छत्येव युधिष्ठिरः ॥ 022c
तानुवाच महाप्राज्ञो वासुदेवो महामनाः । 023a
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥ 023c
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च । 024a
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥ 024c
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः । 025a
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥ 025c
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः । 026a
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥ 026c
एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति । 027a
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥ 027c
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः । 028a
मिथः सङ्कथयाञ्चक्रुरेषो हि कुलपांसनः ॥ 028c
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् । 029a
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥ 029c
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे । 030a
नकुले सहदेवे च भीतिरभ्येति पाण्डवम् ॥ 030c
न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि । 031a
यथाऽस्य हृदयं भीतमल्पसत्वस्य संयुगे ॥ 031c
ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् । 032a
हृष्टाः सुमनसो भूत्वा चेलानि दुधुवुश्च ह ॥ 032c
व्यनिन्दंश्च तथा सर्वे योधास्तव विशाम्पते । 033a
युधिष्ठिरं ससोदर्यं सहितं केशवनेन हि ॥ 033c
ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् । 034a
निःशब्दमभवत्तूर्णं पुनरेव विशाम्पते ॥ 034c
किं नु वक्ष्याति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति । 035a
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥ 035c
विवक्षितं किमस्येति संशयः सुमहानभूत् । 036a
उभयोः सेनयो राजन्युधिष्ठिरकृते तदा ॥ 036c
सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् । 037a
भीष्ममेवाभ्यात्तूर्णं भ्रातृभिः परिवारितः ॥ 037c
तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः । 038a
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ॥ 038c
युधिष्ठिर उवाच 039
आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह । 039a
अनजानीहि मां तात आशिषश्च प्रयोजय ॥ 039c
भीष्म उवाच 040
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते । 040a
शपेयं त्वां महाराज परीभावाय भारत ॥ 040c
प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव । 041a
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥ 041c
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि । 042a
एवं गते महाराज न तवास्ति पराजयः ॥ 042c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । 043a
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 043c
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन । 044a
भृतोऽस्त्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥ 044c
युधिष्ठिर उवाच 045
मन्त्रयस्व महाबाहो हितैषी मम नित्यशः । 045a
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ 045c
भीष्म उवाच 046
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन । 046a
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥ 046c
युधिष्ठिर उवाच 047
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् । 047a
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥ 047c
भीष्म उवाच 048
नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे । 048a
विजयेत पुमान्कश्चित्साक्षादपि शतक्रतुः ॥ 048c
युधिष्ठिर उवाच 049
हन्त पृच्छामि तस्मात्त्वां पितामह नमोस्तु ते । 049a
वधोपायं ब्रवीहि त्वमात्मनः समरे परैः ॥ 049c
भीष्म उवाच 050
न स्म तं तात पश्यामि समरे यो जयेत माम् । 050a
न तावन्मृत्युकालोऽपि पुनरागमनं कुरु ॥ 050c
सञ्जय उवाच 051
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन । 051a
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ 051c
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति । 052a
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥ 052c
स द्रोणमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् । 053a
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 053c
आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः । 054a
कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज ॥ 054c
द्रोण उवाच 055
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः । 055a
शपेयं त्वां महाराज परीभावाय सर्वशः ॥ 055c
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ । 056a
अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥ 056c
करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् । 057a
एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 057c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । 058a
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 058c
ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि । 059a
योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया ॥ 059c
युधिष्ठिर उवाच 060
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् । 060a
युध्यस्व कौरवस्यार्थे वर एष वृतो मया ॥ 060c
द्रोण उवाच 061
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव । 061a
अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि ॥ 061c
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । 062a
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥ 062c
युधिष्ठिर उवाच 063
पृच्छामि त्वां द्विजश्रेष्ठ शृणु यन्मेऽभिकाङ्क्षितम् । 063a
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् ॥ 063c
द्रोण उवाच 064
न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे । 064a
ममाशु निधने राजन्यतस्व सह सोदरैः ॥ 064c
युधिष्ठिर उवाच 065
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः । 065a
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥ 065c
द्रोण उवाच 066
न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम् । 066a
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥ 066c
ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् । 067a
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ॥ 067c
शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम् । 068a
श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते ॥ 068c
सञ्जय उवाच 069
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः । 069a
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥ 069c
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् । 070a
उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः ॥ 070c
अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः । 071a
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ ॥ 071c
कृप उवाच 072
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः । 072a
शपेयं त्वां महाराज परीभावाय सर्वशः ॥ 072c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । 073a
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 073c
तेषामर्थे महाराज योद्धव्यमिति मे मतिः । 074a
अतस्त्वां क्लीबवद्ब्रूयां युद्धादन्यत्किमिच्छसि ॥ 074c
युधिष्ठिर उवाच 075
हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः । 075a
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ॥ 075c
सञ्जय उवाच 076
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् । 076a
अवध्योऽहं महीपाल युद्ध्यस्व जयमाप्नुहि ॥ 076c
प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप । 077a
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ॥ 077c
एतच्छ्रुत्वा महाराज गौतमस्य विशाम्पते । 078a
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ॥ 078c
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् । 079a
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 079c
अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः । 080a
जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून् ॥ 080c
शल्य उवाच 081
यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः । 081a
शपेयं त्वां महाराज परीभावाय वै रणे ॥ 081c
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते । 082a
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ॥ 082c
ब्रूहि चैष परं वीर केनार्थः किं ददामि ते । 083a
एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 083c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । 084a
इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः ॥ 084c
करिष्यामि हि ते कामं भागिनेय यथेप्सितम् । 085a
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ॥ 085c
युधिष्ठिर उवाच 086
मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् । 086a
कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम् ॥ 086c
शल्य उवाच 087
किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम । 087a
कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः ॥ 087c
युधिष्ठिर उवाच 088
स एव मे वरः शल्य उद्योगे यस्त्वया कृतः । 088a
सूतपुत्रस्य सङ्ग्रामे कार्यस्तेजोवधस्त्वया ॥ 088c
शल्य उवाच 089
सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् । 089a
गच्छ युध्यस्व विस्रब्धः प्रतिजाने वचस्तव ॥ 089c
सञ्जय उवाच 090
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् । 090a
निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः ॥ 090c
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै । 091a
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥ 091c
श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसे । 092a
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥ 092c
हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् । 093a
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥ 093c
कर्ण उवाच 094
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव । 094a
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ॥ 094c
सञ्जय उवाच 095
तच्छ्रुत्वा वचनं कृष्णः सन्न्यवर्तत भारत । 095a
युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः ॥ 095c
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः । 096a
योऽस्मान्वृणोति तमहं वरये साह्यकारणात् ॥ 096c
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् । 097a
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ 097c
अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् । 098a
युष्मदर्थं महाराज यदि मां वृणुषेऽनघ ॥ 098c
युधिष्ठिर उवाच 099
एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् । 099a
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ॥ 099c
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् । 100a
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥ 100c
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते । 101a
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ॥ 101c
सञ्जय उवाच 102
ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव । 102a
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् ॥ 102c
ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजः । 103a
जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् ॥ 103c
प्रत्यपद्यन्त ते सर्वे स्वरथान्पुरुषर्षभाः । 104a
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥ 104c
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् । 105a
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥ 105c
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः । 106a
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा ॥ 106c
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् । 107a
दृष्ट्वा महीक्षितस्तत्र पूजयाञ्चक्रिरे भृशम् ॥ 107c
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् । 108a
दयां च ज्ञातिषु परां कथयाञ्चक्रिरे नृपाः ॥ 108c
साधुसाध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः । 109a
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः ॥ 109c
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा । 110a
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥ 110c
ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः । 111a
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ॥ ॥ 111c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि त्रिचत्वारिंशोऽध्यायः ॥
6-43-8 पेश्यः काहलाः । क्रकचा जयमङ्गलाः । गोविषाणिकाः गवादिशृङ्गाणि ॥ 6-43-25 पुराकल्पे प्राचीनशास्त्रे ॥ 6-43-29 व्यक्तं नियतम् । भीष्मं भीष्मस्य । अन्तिकं समीपम् ॥ 6-43-36 विवक्षितं वक्तुमिष्टम् ॥ 6-43-50 तावत् सम्प्रति ॥ 6-43-53 आत्मनिःश्रेसं स्वहित साधनम् ॥ 6-43-65 अभिजानामि अनुजानामि ॥ 6-43-67 प्रायगतं मरणाय नियतम् । अचेतनं योगबलेन त्यक्तदेहम् । योधानां मध्ये कश्चिदिति शेषः ॥ 6-43-68 जह्यां त्यजेयम् ॥ 6-43-98 भवतः भवत्सम्बन्धी ॥ 6-43-100 तन्तुः सन्ततिः । पिण्डः पितृयज्ञः । अन्ये सर्वे मरिष्यन्तीति भावः ॥ 6-43-107 गौरवं मान्यत्वम् ॥ 6-43-108 सौहृदं मैत्रीम् । कृपां स्नेहम् । दयां परदुःखप्रहाणेच्छाम् ॥ 6-43-109 कीर्तिमतां पाण्डवानां स्तुतिसंहिता वाच इति सम्बन्धः ॥