अध्यायः 041
एकचत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 17 ॥
अर्जुन उवाच 001
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । 001a
तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तमः ॥ 001c
श्रीभगवानुवाच 002
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । 002a
सात्विकी राजसी चैव तामसी चेति तां शृणु ॥ 002c
सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत । 003a
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ 003c
यजन्ते सात्विका देवान्यक्षरक्षांसि राजसाः । 004a
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 004c
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । 005a
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 005c
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । 006a
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ 006c
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । 007a
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ 007c
आयुःसत्वबलारोग्यसुखप्रीतिविवर्धनाः । 008a
रस्याःस्निग्धाः स्थिरा हृद्या आहाराःसात्विकप्रियाः ॥ 008c
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । 009a
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 009c
यातयामं गतरसं पूति पर्युषितं च यत् । 010a
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 010c
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । 011a
यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥ 011c
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । 012a
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 012c
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । 013a
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 013c
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । 014a
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 014c
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । 015a
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ 015c
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । 016a
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ 016c
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । 017a
अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षते ॥ 017c
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । 018a
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 018c
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । 019a
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 019c
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । 020a
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ 020c
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । 021a
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ 021c
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । 022a
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 022c
ओन्तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृताः । 023a
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ 023c
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । 024a
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ 024c
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । 025a
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ 025c
सद्भावे साधुभावे च सदित्येतत्प्रुयुज्यते । 026a
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 026c
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । 027a
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ 027c
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । 028a
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ ॥ 028c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकचत्वारिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगोनाम सप्तदशोऽध्यायः ॥ 6-41-27 तदर्थोयम् इति माध्वपाठः ॥