अध्यायः 040
चत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 16 ॥
श्रीभगवानुवाच 001
अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । 001a
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 001c
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । 002a
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ 002c
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । 003a
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ 003c
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । 004a
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ 004c
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । 005a
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ 005c
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । 006a
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ 006c
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । 007a
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 007c
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । 008a
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ 008c
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । 009a
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 009c
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । 010a
मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ 010c
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । 011a
कामोपभोगपरमा एतावदिति निश्चिताः ॥ 011c
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । 012a
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ 012c
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । 013a
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ 013c
असौ मया हतः शत्रुर्हनिष्ये चापरानपि । 014a
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ 014c
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया । 015a
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 015c
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । 016a
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ 016c
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । 017a
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ 017c
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । 018a
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ 018c
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । 019a
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ 019c
आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि । 020a
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ 020c
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । 021a
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ 021c
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । 022a
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ 022c
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । 023a
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ 023c
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । 024a
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ ॥ 024c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चत्वारिंशोऽध्यायः ॥
इति श्रीमन्मद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे देवासुरसम्पद्विभागयोगोनाम षोडशोऽध्यायः ॥