अध्यायः 039
एकोनचत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 15 ॥
श्रीभगवानुवाच 001
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । 001a
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 001c
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । 002a
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ 002c
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । 003a
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्वा ॥ 003c
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । 004a
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ 004c
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । 005a
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ 005c
न तद्भासयते सूर्यो न शशाङ्को न पावकः । 006a
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ 006c
ममैवांशो जीवलोके जीवभूतः सनातनः । 007a
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 007c
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । 008a
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ 008c
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । 009a
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ 009c
उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् । 010a
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ 010c
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । 011a
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ 011c
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । 012a
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ 012c
गामाविश्य च भूतानि धारयाम्यहमोजसा । 013a
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ 013c
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । 014a
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ 014c
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । 015a
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ 015c
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । 016a
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 016c
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । 017a
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 017c
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । 018a
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 018c
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । 019a
स सर्वविद्भजति मां सर्वभावेन भारत ॥ 019c
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । 020a
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ ॥ 020c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनचत्वारिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगोनाम पञ्चदशोऽध्यायः ॥
6-39-3 न च सम्प्रविष्टः इति माध्वपाठः ॥ 6-39-* पुराणपुरुषोत्तमयोगोनाम इति माध्वपाठः ॥