अध्यायः 038
अष्टत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 14 ॥
श्रीभगवानुवाच 001
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । 001a
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 001c
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । 002a
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ 002c
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । 003a
सम्भवः सर्वभूतानां ततो भवति भारत ॥ 003c
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्तिः याः । 004a
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ 004c
सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । 005a
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ 005c
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । 006a
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ 006c
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । 007a
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 007c
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । 008a
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 008c
सत्वं सुखे सञ्जयति रजः कर्मणि भारत । 009a
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ 009c
रजस्तमश्चाभिभूय सत्वं भवति भारत । 010a
रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा ॥ 010c
सर्वद्वारेषु देहेऽस्मिन्प्राकाश उपजायते । 011a
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्वमित्युत ॥ 011c
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । 012a
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 012c
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । 013a
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 013c
यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् । 014a
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ 014c
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । 015a
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 015c
कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् । 016a
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 016c
सत्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । 017a
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 017c
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः । 018a
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥ 018c
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । 019a
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ 019a
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । 020a
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ 020c
अर्जुन उवाच 021
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । 021a
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ 021c
श्रीभगवानुवाच 022
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । 022a
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ 022c
उदासीनवदासीनो गुणैर्यो न विचाल्यते । 023a
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ 023c
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । 024a
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 024c
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । 025a
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 025c
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । 026a
स गुणान्समतीत्यैतान्ब्रह्म भूयाय कल्पते ॥ 026c
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । 027a
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ ॥ 027c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टत्रिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगोनाम चतुर्दशोऽध्यायः ॥
6-38-18 जघन्यगुणवृत्तिस्थाः इति माध्वपाठः ॥