अध्यायः 037 सप्तत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 13 ॥ अर्जुन उवाच 001
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । 001a
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ 001c
श्रीभगवानुवाच 002
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । 002a
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 002c
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । 003a
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 003c
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । 004a
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ 004c
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । 005a
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ 005c
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । 006a
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ 006c
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । 007a
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 007c
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । 008a
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 008c
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । 009a
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 009c
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । 010a
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ 010c
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । 011a
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 011c
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । 012a
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ 012c
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । 013a
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ 013c
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । 014a
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 014c
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । 015a
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ 015c
बहिरन्तश्च भूतानामचरं चरमेव च । 016a
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ 016c
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । 017a
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 017c
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । 018a
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ 018c
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । 019a
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ 019c
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । 020a
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ 020c
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । 021a
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 021c
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । 022a
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ 022c
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । 023a
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ 023c
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । 024a
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 024c
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । 025a
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 025c
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते । 026a
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 026c
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । 027a
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 027c
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । 028a
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 028c
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । 029a
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ 029c
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । 030a
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ 030c
यदा भूतपृथग्भावमेकस्थमनुपश्यति । 031a
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 031c
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । 032a
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ 032c
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । 033a
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ 033c
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । 034a
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 034c
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । 035a
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ॥ 035c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तत्रिंशोऽध्यायः ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगोनाम त्रयोदशोऽध्यायः ॥

6-37-1 अयं श्लोकः प्रक्षिप्त इति केचित् ॥ 6-37-5 विनिश्चितम् इति माध्वपाठः ॥ 6-37-18 सर्वस्य धिष्ठितमिति पाठान्तरम् ॥ 6-37-24 य एनं वेत्ति इति माध्वपाठः ॥