अध्यायः 036
षट्त्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 12 ॥
अर्जुन उवाच 001
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । 001a
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ 001c
श्रीभगवानुवाच 002
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । 002a
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ 002c
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । 003a
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ 003c
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । 004a
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ 004c
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । 005a
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ 005c
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । 006a
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ 006c
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । 007a
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ 007c
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । 008a
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ 008c
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । 009a
अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनञ्जय ॥ 009c
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । 010a
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ 010c
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । 011a
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ 011c
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । 012a
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ 012c
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । 013a
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ 013c
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । 014a
मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥ 014c
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । 015a
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 015c
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । 016a
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 016c
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । 017a
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ 017c
समः शत्रौ च मित्रे च तथा मानापमानयोः । 018a
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 018c
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केन चित् । 019a
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ 019c
ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । 020a
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ ॥ 020c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षट्त्रिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोऽध्यायः ॥