अध्यायः 035

पञ्चत्रिंशोऽध्यायः ॥ भगवद्गीताद्यायः ॥ 11 ॥ अर्जुन उवाच 001
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । 001a
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ 001c
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । 002a
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ 002c
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । 003a
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 003c
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । 004a
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ 004c
श्रीभगवानुवाच 005
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । 005a
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 005c
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । 006a
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत ॥ 006c
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । 007a
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ 007c
न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा । 008a
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ 008c
सञ्जय उवाच 009
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । 009a
दर्शयामास पार्थाय मरमं रूपमैश्वरम् ॥ 009c
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । 010a
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ 010c
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । 011a
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ 011c
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । 012a
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ 012c
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । 013a
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ 013c
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । 014a
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ 014c
अर्जुन उवाच 015
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । 015a
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ 015c
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । 016a
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ 016c
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । 017a
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ 017c
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । 018a
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ 018c
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । 019a
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ 019c
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । 020a
दृष्ट्वाद्भुतं रूपमुग्रं तदेवं लोकत्रयं प्रव्यथितं महात्मन् ॥ 020c
अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणान्ति । 021a
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ 021c
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । 022a
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ 022c
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । 023a
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ 023c
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । 024a
दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ 024c
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । 025a
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ 025c
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः । 026a
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ 026c
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । 027a
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ 027c
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । 028a
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ 028c
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । 029a
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ 029c
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । 030a
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ 030c
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । 031a
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ 031c
श्रीभगवानुवाच 032
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । 032a
ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ 032c
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । 033a
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ 033c
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । 034a
मया हतांस्त्वं जहि माव्यथिष्ठा युद्ध्यस्व जेतानि रणे सपत्नान् ॥ 034c
सञ्जय उवाच 035
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । 035a
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ 035c
अर्जुन उवाच 036
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । 036a
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ 036c
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । 037a
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ 037c
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । 038a
वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ 038c
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । 039a
नमो नमस्तेऽतु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ 039c
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । 040a
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ 040c
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । 041a
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि ॥ 041c
यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । 042a
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ 042c
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । 043a
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 043c
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । 044a
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ 044c
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । 045a
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ 045c
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । 046a
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ 046c
श्रीभगवानुवाच 047
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । 047a
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ 047c
न वेद यज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । 048a
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ 048c
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । 049a
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ 049c
सञ्जय उवाच 050
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । 050a
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ 050c
अर्जुन उवाच 051
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । 051a
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ 051c
श्रीभगवानुवाच 052
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । 052a
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ 052c
नाहं वेदैर्न तपसा न दानेन न चेज्यया । 053a
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ 053c
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । 054a
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ 054c
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । 055a
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ॥ 055c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चत्रिंशोऽध्यायः ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः ॥ 6-3-35-8 शक्यसे इति झ. पाठः ॥