अध्यायः 033

त्रयस्त्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 9 ॥ श्रीभगवानुवाच 001
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । 001a
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 001c
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । 002a
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 002c
अश्रद्दधानां पुरुषा धर्मस्यास्य परन्तप । 003a
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 003c
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । 004a
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ 004c
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । 005a
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 005c
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । 006a
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 006c
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । 007a
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 007c
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । 008a
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ 008c
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । 009a
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ 009c
मयाऽऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । 010a
हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ॥ 010c
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । 011a
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ 011c
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । 012a
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ 012c
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । 013a
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ 013c
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । 014a
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ 014c
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । 015a
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ 015c
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् । 016a
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ 016c
पिताऽहमस्य जगतो माता धाता पितामहः । 017a
वेद्यं पवित्रमोङ्कार ऋक् साम यजुरेव च ॥ 017c
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । 018a
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ 018c
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । 019a
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ 019c
त्रैविद्या मां सोमपाः पूतपापा यज्ञेरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । 020a
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ 020c
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । 021a
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ 021c
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । 022a
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 022c
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । 023a
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ 023c
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । 024a
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ 024c
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । 025a
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् ॥ 025c
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । 026a
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ 026c
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । 027a
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ 027c
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । 028a
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ 028c
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । 029a
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 029c
अपि चेत्सुदुराचारो भजते मामनन्यभाक् । 030a
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ 030c
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । 031a
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ 031c
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । 032a
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 032c
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । 033a
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ 033c
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । 034a
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ॥ 034c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयस्त्रिंशोऽध्यायः ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोऽध्यायः ॥