अध्यायः 031

एकत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 7 ॥ श्रीभगवानुवाच 001
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । 001a
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 001c
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । 002a
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ 002c
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । 003a
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 003c
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । 004a
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 004c
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । 005a
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 005c
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । 006a
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 006c
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । 007a
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 007c
रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ॥ 008a
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 008c
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । 009a
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 009c
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । 010a
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 010c
बलं बलवतां चाहं कामरागविवर्जितम् । 011a
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 011c
ये चैव सात्विका भावा राजसास्तामसाश्च ये । 012a
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 012c
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । 013a
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 013c
दैवी ह्येषा गुणमयी मम माया दुरत्यया । 014a
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 014c
न मां तुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । 015a
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ 015c
चुत्रर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । 016a
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 016c
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । 017a
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ 017c
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । 018a
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ 018c
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । 019a
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 019c
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । 020a
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 020c
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । 021a
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 021c
स तया श्रद्धया युक्तस्तस्याराधनमीहते । 022a
लभते च ततः कामान्मयैव विहितान्हितान् ॥ 022c
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । 023a
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ 023c
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । 024a
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ 024c
नाहं प्रकाशः सर्वस्य योगमायासमावृतः । 025a
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 025c
वेदाहं समतीतानि वर्तमानानि चार्जुन । 026a
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 026c
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । 027a
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ 027c
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । 028a
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 028c
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । 029a
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 029c
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । 030a
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ॥ 030c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकत्रिंशोऽध्यायः ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगोनाम सप्तमोऽध्यायः ॥

6-31-* ज्ञानविज्ञानयोगोनाम इति माध्वपाठः ॥ 6-31-16 आब्रह्मभवनात् इति माध्वपाठः ॥