अध्यायः 030

त्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 6 ॥ श्रीभगवानुवाच 001
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । 001a
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 001c
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । 002a
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 002c
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । 003a
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 003c
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । 004a
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ 004c
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । 005a
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 005c
बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः । 006a
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 006c
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । 007a
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 007c
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । 008a
युक्त इत्युच्यते योगी समलोष्ठाश्मकाञ्चनः ॥ 008c
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । 009a
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 009c
योगी युञ्जीत सततमात्मानं रहसि स्थितः । 010a
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 010c
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । 011a
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ 011c
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । 012a
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 012c
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । 013a
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 013c
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । 014a
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 014c
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । 015a
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 015c
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । 016a
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 016c
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । 017a
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 017c
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । 018a
निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 018c
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । 019a
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 019c
यत्रोपरमते चित्तं निरुद्धं योगसेवया । 020a
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 020c
मुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम् । 021a
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 021c
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । 022a
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 022c
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् । 023a
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 023c
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । 024a
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 024c
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । 025a
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 025c
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । 026a
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 026c
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । 027a
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 027c
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । 028a
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 028c
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । 029a
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 029c
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । 030a
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 030c
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । 031a
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 031c
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । 032a
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 032c
अर्जुन उवाच 033
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । 033a
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ 033c
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । 034a
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 034c
श्रीभगवानुवाच 035
असंशयं महाबाहो मनो दुर्निग्रहं चलम् । 035a
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 035c
असंयतात्मना योगो दुष्प्राप इति मे मतिः । 036a
वश्यात्मना तु यतता शक्योऽऽवाप्तुमुपायतः ॥ 036c
अर्जुन उवाच 037
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । 037a
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 037c
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । 038a
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 038c
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । 039a
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 039c
श्रीभगवानुवाच 040
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । 040a
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 040c
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । 041a
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 041c
अथवा योगिनामेव कुले भवति धीमताम् । 042a
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 042c
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । 043a
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 043c
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । 044a
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 044c
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । 045a
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 045c
तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः । 046a
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 046c
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । 047a
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ॥ 047c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रिंशोऽध्यायः ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अध्यात्मयोगोनाम षष्ठोऽध्यायः ॥

6-30-11 चेलाजिनेति माध्वपाठः ॥ 6-30-28 एवं युञ्जन् इति माध्वपाठः ॥ 6-30-41 पुण्यकृताल्ँलोकान् इति माध्वपाठः ॥ 6-31-* आत्मसंयमयोगोनाम इति माध्वपाठः ॥