अध्यायः 029
एकोनत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 5 ॥
अर्जुन उवाच 001
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । 001a
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 001c
श्रीभगवानुवाच 002
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । 002a
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ 002c
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । 003a
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ 003c
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । 004a
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ 004c
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । 005a
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 005c
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । 006a
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ 006c
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । 007a
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 007c
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । 008a
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन् ॥ 008c
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । 009a
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ 009c
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । 010a
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 010c
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । 011a
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ 011c
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । 012a
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 012c
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । 013a
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 013c
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । 014a
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 014c
नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः । 015a
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ 015c
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । 016a
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ 016c
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । 017a
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 017c
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । 018a
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 018c
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । 019a
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ 019c
न प्रहृष्येत्प्रियं व्याप्य नोद्विजेत्प्राप्य चाप्रियम् । 020a
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ 020c
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । 021a
स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते ॥ 021c
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । 022a
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 022c
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । 023a
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 023c
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । 024a
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 024c
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । 025a
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ 025c
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । 026a
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 026c
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । 027a
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ 027c
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । 028a
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ 028c
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । 029a
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ॥ 029c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनत्रिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सन्न्यासयोगोनाम पञ्चमोऽध्यायः ॥