अध्यायः 028
अष्टाविंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 4 ॥
श्रीभगवानुवाच 001
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । 001a
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 001c
एवं परम्पराप्राप्तमिमं राजर्षयोऽविदुः । 002a
स कालेनेह महता योगो नष्टः परन्तप ॥ 002c
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । 003a
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 003c
अर्जुन उवाच 004
अपरं भवतो जन्म परं जन्म विवस्वतः । 004a
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 004c
श्रीभगवानुवाच 005
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । 005a
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 005c
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । 006a
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ 006c
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । 007a
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ 007c
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । 008a
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ 008c
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । 009a
त्वक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 009c
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । 010a
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ 010c
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । 011a
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 011c
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । 012a
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 012c
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । 013a
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ 013c
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । 014a
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ 014c
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । 015a
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ 015c
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । 016a
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 016c
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । 017a
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 017c
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । 018a
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 018c
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । 019a
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ 019c
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । 020a
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ 020c
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । 021a
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 021c
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । 022a
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 022c
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । 023a
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ 023c
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । 024a
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ॥ 024c
दैवमेवापरे यज्ञं योगिनः पर्युपासते । 025a
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 025c
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । 026a
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 026c
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । 027a
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 027c
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । 028a
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ 028c
अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । 029a
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ 029c
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । 030a
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ 030c
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । 031a
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ 031c
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । 032a
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ 032c
श्रेयान्द्रव्यमयाद्यजाज्ज्ञानयज्ञः परन्तप । 033a
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 033c
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । 034a
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ 034c
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । 035a
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 035c
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । 036a
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ 036c
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । 037a
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 037c
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । 038a
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ 038c
श्रद्धावाल्ँलभते ज्ञानं तत्परः संयतेन्द्रियः । 039a
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ 039c
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । 040a
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ 040c
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । 041a
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ 041c
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः । 042a
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ॥ 042c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टाविंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशस्त्रे श्रीकृष्णार्जुनसंवादे यज्ञविभागयोगोनाम चतुर्थोऽध्यायः ॥
6-28-39 मत्परः संयतेन्द्रियः इति माध्वपाठः ॥ 6-28-* ज्ञानयोगोनाम इति माध्वपाठः ॥