अध्यायः 027

सप्तविंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 3 ॥ अर्जुन उवाच 001
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । 001a
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 001c
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । 002a
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 002c
श्रीभगवानुवाच 003
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । 003a
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 003c
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । 004a
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ 004c
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । 005a
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 005c
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । 006a
इन्द्रियार्थान्विमूढात्मा मिथ्याचाराः स उच्यते ॥ 006c
यस्त्विन्द्रियाणि पनसा नियम्यारमभतेऽर्जुन । 007a
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ 007c
नियतं कुरु कर्म त्वं ज्यायो ह्यकर्मणः । 008a
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 008c
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । 009a
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ 009c
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । 010a
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 010c
देवान्भावयताऽनेन ते देवा भावयन्तु वः । 011a
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ 011c
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । 012a
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ 012c
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । 013a
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 013c
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । 014a
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 014c
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माऽक्षरसमुद्भवम् । 015a
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 015c
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । 016a
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ 016c
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । 017a
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ 017c
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । 018a
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 018c
तस्मादसक्तः सततं कार्यं कर्म समाचर । 019a
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ 019c
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । 020a
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ 020c
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । 021a
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 021c
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । 022a
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 022c
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । 023a
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 023c
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । 024a
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 024c
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । 025a
कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ 025c
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । 026a
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 026c
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । 027a
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ 027c
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । 028a
गुणाऽगुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 028c
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु । 029a
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ 029c
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । 030a
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 030c
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । 031a
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 031c
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । 032a
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ 032c
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । 033a
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 033c
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । 034a
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ 034c
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । 035a
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 035c
अर्जुन उवाच 036
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । 036a
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ 036c
श्रीभगवानुवाच 037
काम एष क्रोध एष रजोगुणसमुद्भवः । 037a
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 037c
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च । 038a
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ 038c
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । 039a
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 039c
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । 040a
एतैर्विमोहयत्येष ज्ञानमावृत्त्य देहिनम् ॥ 040c
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । 041a
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 041c
इन्द्रियामि पराण्याहुरिन्द्रियेभ्यः परं मनः । 042a
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ 042c
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । 043a
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ॥ 043c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तविंशोऽध्यायः ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोनाम तृतीयोऽध्यायः ॥