अध्यायः 025
पञ्चविंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 1 ॥
धृतराष्ट्र उवाच 001
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । 001a
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 001c
सञ्जय उवाच 002
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । 002a
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 002c
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । 003a
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 003c
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । 004a
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 004c
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । 005a
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 005c
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । 006a
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 006c
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । 007a
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ 007c
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । 008a
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ 008c
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । 009a
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 009c
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । 010a
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 010c
अयनेषु च सर्वेषु यथाभागमवस्थिताः । 011a
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 011c
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । 012a
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 012c
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । 013a
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 013c
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । 014a
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ 014c
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । 015a
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 015c
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । 016a
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 016c
काश्यश्च परमेष्वासः शिखण्डी च महारथः । 017a
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 017c
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । 018a
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ 018c
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । 019a
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 019c
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । 020a
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ 020c
हृषीकेशं तदा वाक्यमिदमाह महीपते । 021a
अर्जुन उवाच 021
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 021c
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । 022a
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ 022c
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । 023a
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ 023c
सञ्जय उवाच 024
एवमुक्तो हृषीकेशो गुडाकेशेन भारत । 024a
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 024c
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । 025a
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ 025c
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । 026a
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ 026c
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । 027a
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 027c
कृपया परयाऽविष्टो विषीदन्निदमब्रवीत् । 028a
अर्जुन उवाच 028
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ 028c
सीदन्ति मम गात्राणि मुखं च परिशुष्यति । 029a
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 029c
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । 030a
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 030c
निमित्तानि च पश्यामि विपरीतानि केशव । 031a
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 031c
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । 032a
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 032c
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । 033a
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 033c
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । 034a
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ॥ 034c
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । 035a
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 035c
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । 036a
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ 036c
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । 037a
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 037c
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । 038a
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ 038c
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । 039a
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ 039c
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । 040a
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ 040c
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । 041a
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ 041c
सङ्करो नरकायैव कुलघ्नानां कुलस्य च । 042a
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ 042c
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । 043a
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 043c
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । 044a
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ 044c
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । 045a
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ 045c
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । 046a
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ 046c
सञ्जय उवाच 047
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । 047a
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ॥ 047c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चविंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोऽध्यायः ॥ 1 ॥
6-25-8 सौमदत्तिस्तथैवचेति माध्वपाठः ॥ 6-25-18 शङ्खं दध्मुः पृथक्पृथक् इति माध्वपाठः ॥ 6-25-30 गाण्डीवं स्रवते हस्तात् इति माध्वपाठः ॥ 6-25-34 श्याला इति माध्वपाठः ॥