अध्यायः 024
सञ्जयेनोभयसेनयोरभ्युदयवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय । 001a
उदग्रमनसः के वा के वा दीना विचेतसः ॥ 001c
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने । 002a
मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय ॥ 002c
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः । 003a
वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम् ॥ 003c
सञ्जय उवाच 004
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा । 004a
स्रजः समाः सुगन्धानामुभयत्र समुद्भवः ॥ 004c
संहतानामनीकानां व्यूढानां भरतर्षभ । 005a
संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत् ॥ 005c
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः । 006a
शूराणां रणशूराणां गर्जतामितरेतरम् ॥ 006c
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत् । 007a
अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ । 007c
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ ॥ 007e
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्विंशोऽध्यायः ॥