अध्यायः 023

अर्जुनेन दुर्गास्तोत्रपठनम् ॥ 1 ॥ सञ्जय उवाच 001
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् । 001a
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥ 001c
श्रीभगवानुवाच 002
शुचिर्भूत्वा महाबाहो सङ्ग्रामाभिमुखे स्थितः । 002a
पराजयाय शत्रूणां दुर्गास्तोत्रमुदीरय ॥ 002c
सञ्जय उवाच 003
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता । 003a
अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ॥ 003c
अर्जुन उवाच 004
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि । 004a
कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥ 004c
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते । 005a
चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ॥ 005c
कात्यायनि महाभागे करालि विजये जये । 006a
शिखिपिच्छध्वजधरे नानाभरणभूषिते ॥ 006c
अट्टशूलप्रहरणे खड्गखेटकधारिणि । 007a
गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥ 007c
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि । 008a
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ 008c
उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि । 009a
हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ 009c
वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि । 010a
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥ 010c
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् । 011a
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ 011c
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती । 012a
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ 012c
स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना । 013a
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ 013c
कान्तारभयदुर्गेषु भक्तानां चालयेषु च । 014a
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ 014c
त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च । 015a
सन्ध्या प्रभावती चैव सावित्री जननी तथा ॥ 015c
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी । 016a
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥ 016c
सञ्जय उवाच 017
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला । 017a
अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥ 017c
देव्युवाच 018
स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव । 018a
नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥ 018c
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् । 019a
इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ॥ 019c
लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः । 020a
आरुरोह ततः पार्थो रथं परमसम्मतम् ॥ 020c
कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौ प्रदध्मतुः । 021a
य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ॥ 021c
यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा । 022a
न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ॥ 022c
न भयं विद्यते तस्य सदा राजकुलादपि । 023a
विवादे जयमाप्नोति बद्धो मुच्यति बन्धनात् ॥ 023c
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते । 024a
सङ्ग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ॥ 024c
आरोग्यबलसम्पन्नो जीवेद्वर्षशतं तथा । 025a
एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ॥ 025c
मोहादेतौ न जानन्ति नरनारायणावृषी । 026a
तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ॥ 026c
प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः । 027a
द्वैपायनो नारदश्च कण्वो रामस्तथानघः । 027c
अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥ 027e
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः । 028a
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ॥ 028c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोविंशोऽध्यायः ॥

6-23-1 हितार्थाय हितश्चासावर्थश्च हितार्थो जयस्तदर्थम् ॥ 6-23-3 सङ्ख्ये सङ्ग्रामे ॥ 6-23-4 इदं स्तोत्रं झ. पुस्तक एव दृश्यते न दाक्षिणात्यकोशेषु क्वापि । हे सिद्धसेनानि सिद्धानां सेनाया नेत्रि । मन्दरे मन्दरवने वसतीति तथा । कुमारि अविप्लुतब्रह्मचर्ये जरादिहीने इति वा । कालि कालशक्ते । कापालि कपालस्यायं पतिः कापालो रुद्रस्तत्पत्नि । कपिलः कृष्णपिङ्गलश्च वर्णविशेषौ तद्वति ॥ 6-23-5 भद्रं कल्याणं कालयति भक्तान् प्रति आनयति सा भद्रकाली । महती चासौ काली च कालयित्री संहर्त्री कालरूपा महाकाली । चण्डि चण्डस्य कालान्तकस्य भार्ये । चण्डे प्रगल्भे । तारिणि सङ्कटोत्तरणकर्त्रि । वरवर्णिनी सर्वसौभाग्यलक्षणोपेता स्त्री तद्रूपे ॥ 6-23-6 कात्यायनि कतगोत्रोद्भवे । महाभागे अतिपूज्ये । करालि क्रूरे । विजये विशिष्टो जयो यया सा । जयप्रदे इत्यर्थः । जये जयस्वरूपे ॥ 6-23-7 अट्टम् अत्युत्कटं शूलं तदेव प्रहरणायुधं यस्याः । खेटकं चर्म ॥ 6-23-8 कौशिकि कुशिककुलोत्पन्ने । अट्टहासे प्रशस्तस्मिते । कोकं चक्रवत् वृत्तं वा रक्तबीजवधेऽसुरादानशीलं वा मुखं यस्याः सा कोकमुखा ॥ 6-23-9 हिरण्याक्षि पीतनेत्रे । विरूपाक्षि विविधरूपयुक्तनेत्रे ॥ 6-23-10 ब्रह्मण्ये यज्ञकर्मविप्रादिषु साध्वी ब्रह्मण्या । जातवेदसि अतीतज्ञे अतीतैर्ज्ञाते वा । जम्बूकटकेषु जम्बूद्वीपराजधानीषु चैत्येषु देवतालयेषु नित्यं सन्निहित आलयः स्थानं यस्याः सा तथा ॥ 6-23-13 रणाजिरे युद्धाङ्गणे ॥ 6-23-15 जम्भनी तन्द्रा । मोहिनी निद्रा । श्रीर्लक्ष्मीः विद्यातपोधनादिसमृद्धिरूपा ॥स