अध्यायः 022

युधिष्ठिरादीनां युद्धाय निर्गमः ॥ 1 ॥ सञ्जय उवाच 001
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् । 001a
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥ 001c
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः । 002a
स्वर्गं परममिच्छन्तः सुयुद्धेन कुरूद्वहाः ॥ 002c
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना । 003a
धृष्टद्युम्नश्चरन्नग्रे भीमसेनेन पालितः ॥ 003c
अनीकं दक्षिणं राजन्युयुधानेन पालितम् । 004a
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ 004c
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् । 005a
युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागबलस्य मध्ये ॥ 005c
समुच्छ्रितं दन्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति । 006a
प्रदक्षिणं चैनमुपाचरन्त महर्षयः संस्तुतिभिर्महेन्द्रम् ॥ 006c
पुरोहिताः शत्रुवधं वदन्तो ब्रह्मर्षिसिद्धाः श्रुतवन्त एनम् । 007a
जप्यैश्च मन्त्रैश्च महौषधीभिः समन्ततः स्वस्त्ययनं ब्रुवन्तः ॥ 007c
ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् । 008a
कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेशः ॥ 008c
सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः । 009a
रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः ॥ 009c
तमास्थितः केशवसङ्गृहीतं कपिध्वजो गाण्डिवबाणपाणिः । 010a
धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित् ॥ 010c
उद्धर्तयिष्यंस्तव पुत्रसेनामतीव रौद्रं स बिभर्ति रूपम् । 011a
अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् ॥ 011c
स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता । 012a
तं तत्र सिंहर्षभमत्तखेलं लोके महेन्द्रप्रतिमानकल्पम् ॥ 012c
समीक्ष्य सेनाग्रगतं दुरासदं संविव्यथुः पङ्कगता यथा द्विपाः । 013a
वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः ॥ 013c
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् । 014a
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ 014c
वासुदेव उवाच 015
य एष रोषात्प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च । 015a
स एष भीष्मः कुरुवंशकेतुर्येनाहृतास्त्रिशतं वाजिमेधाः ॥ 015c
एतान्यनीकानि महानुभावं गूहन्ति मेघा इव रश्मिमन्तम् । 016a
एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण ॥ ॥ 016c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्वाविंशोऽध्यायः ॥

6-22-9 सहस्रं सूर्यतुल्यान्यादर्शचक्राणि यस्मिन्स सहस्रसूर्यः ॥ 6-22-16 गूहन्ति परिवारयन्ति ॥