अध्यायः 021

परसेनादर्शनचकितं युधिष्ठिरं प्रत्यर्जुनेन सयुक्तिनिरूपणं समाश्वासनम् ॥ 1 ॥ सञ्जय उवाच 001
बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम् । 001a
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 001c
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः । 002a
अभेद्यमिव सम्प्रेक्ष्य विवर्णोऽर्जुनमब्रवीत् ॥ 002c
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे । 003a
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ॥ 003c
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा । 004a
कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा ॥ 004c
ते वयं संशय्नं प्राप्ताः ससैन्याः शत्रुकर्षण । 005a
कथमस्मान्महाव्यूहादुत्थानं नो भविष्यति ॥ 005c
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा । 006a
विषण्णमिव सम्प्रेक्ष्य तव राजन्ननीकिनीम् ॥ 006c
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि । 007a
जयन्त्यल्पतरा येन तन्निबोध विशाम्पते ॥ 007c
तत्र ते कारणं राजन्प्रवक्ष्याम्यनसूयवे । 008a
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥ 008c
एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् । 009a
पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥ 009c
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः । 010a
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ॥ 010c
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः । 011a
युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः ॥ 011c
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः । 012a
यथा तु नारदः प्राह यतः कृष्णस्ततो जयः ॥ 012c
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् । 013a
तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः ॥ 013c
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः । 014a
पुरुषः सनातनमयो यतः कृष्णस्ततो जयः ॥ 014c
पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः । 015a
सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥ 015c
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् । 016a
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥ 016c
तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत । 017a
यस्य ते जयमाशास्ते विश्वभुक् त्रिदिवेश्वरः ॥ ॥ 017c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकविंशोऽध्यायः ॥

6-21-13 गुणभूतो दासभूतः ॥ 6-21-15 अकुण्ठसायकः अप्रतिहतायुधः ॥