अध्यायः 020

कुरुसेनागमनप्रकारवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् । 001a
मामका वा भीष्मनेत्राः समीपे पाण्डवा वा भीमनेत्रास्तदानीम् ॥ 001c
केषां जघन्यौ समसूर्यौ सवायू केषां सेनां श्वापदाश्चाभषन्त । 002a
केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥ 002c
सञ्जय उवाच 003
उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र । 003a
उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे ॥ 003c
उभे सेने बृहत्यौ भीमरूपे तथैवोभे भारत दुर्विषह्ये । 004a
तथैवोभे स्वर्गजयाय सृष्टे तथैवोभे सत्पुरुषोपजुष्टे ॥ 004c
पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः । 005a
दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ॥ 005c
शीतो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याहरन्त । 006a
गजेन्द्राणां मदगन्धांश्च तीव्रान्न सेहिरे तव पुत्रस्य नागाः ॥ 006c
दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षं जालवन्तं प्रभिन्नम् । 007a
समास्थितो मध्यगतः कुरूणां संस्तूयमानो वन्दिभिर्मागधैश्च ॥ 007c
चन्द्रप्रभं श्वेतमथातपत्रं सौवर्णस्रग्भ्राजति चोत्तमाङ्गे । 008a
तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैर्याति गान्धारराजः ॥ 008c
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सखड्गः । 009a
श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशैः ॥ 009c
तस्य सैन्ये धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च । 010a
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धोस्तथा सौवीराः पञ्चनदाश्च शूराः ॥ 010c
शोणैर्हयै रुक्मरथो महात्मा द्रोणो धनुष्पाणिरदीनसत्वः । 011a
आप्तो गुरुः प्रथितः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभियाति ॥ 011c
वार्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च । 012a
साल्वा मत्स्याः केकयाश्चेति सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ॥ 012c
शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी । 013a
शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभियाति ॥ 013c
महारथैर्वृष्णिभोजैः सुगुप्तं सुराष्ट्रकैर्विदितैरात्तशस्त्रैः । 014a
बृहद्बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति ॥ 014c
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः । 015a
येनार्जुनस्तेन राजन्कृतास्त्राः प्रयातारस्ते त्रिगर्ताश्च शूराः ॥ 015c
साग्रं शतसहस्रं तु नागानां तव भारत । 016a
नागेनागे रथशतं शतमश्वा रथेरथे ॥ 016c
अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः । 017a
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥ 017c
संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम् । 018a
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ॥ 018c
महारथौघविपुलः समुद्र इव घोषवान् । 019a
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥ 019c
अनन्तरूपा ध्वजिनी नरेन्द्र भीमा त्वदीया न तु पाण्डवानाम् । 020a
तां चैव मन्ये बृहतीं दुष्प्रधर्षां यस्या नेता केशवश्चार्जुनश्च ॥ ॥ 020c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि विंशोऽध्यायः ॥

6-20-1 भीष्मो नेत्रः नेता येषां ते भीष्मनेत्राः ॥ 6-20-15 येन यत्र । तेन तत्र ॥ 6-20-20 अनन्तरूपा बह्वी त्वदीया नतु पाण्डवानां सेना बह्वी । तथापि तां बृहतीमेव मन्ये इति सम्बन्धः ॥