अध्यायः 019

युद्धाय पाण्डवसेनानिर्याणम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
अक्षौहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः । 001a
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥ 001c
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् । 002a
कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत सञ्जय ॥ 002c
सञ्जय उवाच 003
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः । 003a
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ॥ 003c
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः । 004a
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ॥ 004c
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह । 005a
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥ 005c
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव । 006a
एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः ॥ 006c
एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम् । 007a
अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ 007c
यः स वात इवोद्भूतः समरे दुःसहः परैः । 008a
स नः पुरो योत्स्यते वै भीमः प्रहरतां वरः ॥ 008c
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः । 009a
अग्रेऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः ॥ 009c
यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः । 010a
निवर्तिष्यन्ति सन्त्रस्ताः सिंहं क्षुद्रमृगा यथा ॥ 010c
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः । 011a
भीमं प्रहरतां श्रेष्ठं देवाराजमिवामराः ॥ 011c
न हि सोऽस्ति पुमाल्ँलोके यः सङ्क्रुद्धं वृकोदरम् । 012a
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥ 012c
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् । 013a
चरन्वेगेन महता समुद्रमपि शोषयेत् ॥ 013c
भीमसेनं तदा राजन्दर्शयस्व महाबलम् । 014a
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् ॥ 014c
एते गच्छन्तु सामात्याः प्रकर्षन्तो जनाधिप । 015a
धृतराष्ट्रस्य दायादानिति बीभत्सुरब्रवीत् ॥ 015c
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत । 016a
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥ 016c
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः । 017a
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा ॥ 017c
सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः । 018a
गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत ॥ 018c
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान् । 019a
नकुलः सहदेवश्च धृष्टकेतुश्च पार्थिवः ॥ 019c
विराटश्च ततः पश्चाद्राजाथाक्षौहिणीवृतः । 020a
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥ 020c
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती । 021a
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ॥ 021c
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः । 022a
सहितः पृतनाशूरैः रथमुख्यैः प्रभद्रकैः ॥ 022c
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः । 023a
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥ 023c
पृष्ठतोऽप्यर्जुनस्यासीद्युयुधानो महाबलः । 024a
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमोजसौ ॥ 024c
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः । 025a
बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥ 025c
अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः । 026a
विराटमन्वयात्पश्चात्पाण्डवार्थं पराक्रमी ॥ 026c
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः । 027a
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥ 027c
समुत्सार्य ततः पश्चाद्धृष्टद्युम्नो महारथः । 028a
भ्रातृभिः सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥ 028c
त्वदीयानां परेषां च रथेषु विपुलान्ध्वजान् । 029a
अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः ॥ 029c
पदातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः । 030a
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥ 030c
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः । 031a
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥ 031c
क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः । 032a
राजानमन्वयुः पश्चाज्जीमूता इव वार्षिकाः ॥ 032c
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् । 033a
प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ॥ 033c
तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम् । 034a
न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके ॥ 034c
वज्रो नामैष स व्यूहो निर्भयः सर्वतोमुखः । 035a
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥ 035c
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् । 036a
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥ 036c
सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति । 037a
प्रववौ पृष्ठतो वायुर्निरभ्रे स्तनयित्नुमान् ॥ 037c
विष्वग्वाताश्च विववुर्नीचैः शर्करकर्षिणः । 038a
रजश्चोद्धूयत महत्तम आच्छादयज्जगत् ॥ 038c
पपात महती चोल्का प्राङ्मुखी भरतर्षभ । 039a
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ॥ 039c
अथ सन्नह्यमानेषु सैन्येषु भरतर्षभ । 040a
निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च ॥ 040c
व्यशीर्यत सनादा च भूस्तदा भरतर्षभ । 041a
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् । 041c
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन ॥ 041e
ध्वजानां धूयमानानां सहसा मातरिश्वना । 042a
किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः ॥ 042c
महतां सपताकानामादित्यसमतेजसाम् । 043a
सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥ 043c
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः । 044a
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥ 044c
ग्रसन्त इव मज्जानो योधानां भरतर्षभ । 045a
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥ ॥ 045c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनविंशोऽध्यायः ॥

6-19-4 संहतानिति । अल्पैः संहत्यैव योद्धव्यम् । बहुभिस्तु विशकलितैरपि योद्धुं शक्यमित्यर्थः ॥ 6-19-6 व्यूह व्यूहं कुरु ॥ 6-19-18 स्पन्दमाना किञ्चिच्चलन्ती ॥ 6-19-31 वारणा राजानमन्वयुरिति सम्बन्धः । अचलाः निष्कम्पाः ॥ 6-19-32 जीमूताः पर्वताः ॥ 6-19-39 आहत्य आस्फाल्य ॥ 6-19-45 मज्जान इति । नोऽस्माकं योधानां मज्जाः धातुविशेषान् ग्रसन्त इवेति योज्यम् । भीमसेनं दृष्ट्वा व्यवस्थिता इति सम्बन्धः ॥