अध्यायः 018
कुरुसेनावर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः । 001a
अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥ 001c
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः । 002a
नेमिघोषै रथानां च दीर्यतीव वसुन्धरा ॥ 002c
हयानां हेषमाणानां योधानां चैव गर्जताम् । 003a
क्षणेनैव नभो भूमिः शब्देनापूरितं तदा ॥ 003c
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च । 004a
समकम्पन्त सैन्यानि परस्परसमागमे ॥ 004c
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । 005a
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥ 005c
ध्वजा बहुविधाकारास्तावकानां नराधिप । 006a
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥ 006c
स्वेषां चैव परेषां च समदृश्यन्त भारत । 007a
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥ 007c
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः । 008a
सन्नद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः ॥ 008c
कुरुयोधवरा राजन्विचित्रायुधकार्मुकाः । 009a
उद्यतैरायुथैश्चित्रैस्तलबद्धाः पताकिनः ॥ 009c
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः । 010a
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप । 010c
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥ 010e
विविंशतिश्चित्रसेनो विकर्णश्च महारथः । 011a
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥ 011c
रथा विंशतिसाहस्रास्तथैषामनुयायिनः । 012a
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 012c
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा । 013a
सौवीराः कैतवाः प्राच्याः प्रतीच्योदीच्यवासिनः ॥ 013c
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः । 014a
महता रथवंशेन ते ररक्षुः पितामहम् ॥ 014c
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् । 015a
मागधो यत्र नृपतिस्तद्रथानीकमन्वयात् ॥ 015c
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् । 016a
अभवन्वाहिनीमध्ये शतानामयुतानि षट् ॥ 016c
पादाताश्चाग्रतो गच्छन्धनुश्चर्मासिपाणयः । 017a
अनेकशतसाहस्रा नखरप्रासयोधिनः ॥ 017c
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत । 018a
अदृश्यत महाराज गङ्गेव यमुनान्तरा ॥ ॥ 018c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टादशोऽध्यायः ॥
6-18-16 शतानामयुतानि षट् षट्शतान्ययुतगुणानि । षष्टिलक्षाणीति यावत् ॥