अध्यायः 017

युद्धाय कुरुसेनानिर्याणम् ॥ 1 ॥ सञ्जय उवाच 001
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् । 001a
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥ 001c
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत । 002a
दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः ॥ 002c
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत । 003a
ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः ॥ 003c
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः । 004a
लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥ 004c
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । 005a
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥ 005c
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिन्दमौ । 006a
युयुधाते तवार्थाय यथा स समयः कृतः ॥ 006c
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव । 007a
समानीय महीपालानिदं वचनमब्रवीत् ॥ 007c
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् । 008a
गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम् ॥ 008c
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः । 009a
सम्भावयध्वमात्मानमव्यग्रमनसो युधि ॥ 009c
नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः । 010a
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥ 010c
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे । 011a
यदयोनिधनं याति सोऽस्य धर्मः सनातनः ॥ 011c
एवमुक्ता महीपाला भीष्मेण भरतर्षभ । 012a
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥ 012c
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः । 013a
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥ 013c
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः । 014a
निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥ 014c
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः । 015a
तान्यनीकानि शोभन्ते गजैरथ पदातिभिः ॥ 015c
भेरीपणवशब्दैश्च दुन्दुभीनां च निःस्वनैः । 016a
रथनेमिनिनादैश्च बभूवाकुलिता मही ॥ 016c
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः । 017a
भ्राजमाना व्यराजन्त साग्नयः पर्वता इव ॥ 017c
तालेन महता भीष्मः पञ्चतारेण केतुना । 018a
विमलादित्यसङ्काशस्तस्थौ कुरुचमूपरि ॥ 018c
ये त्वदीया महेष्वासा राजानो भरतर्षभ । 019a
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ॥ 019c
स तु गोवासनः शैब्यः सहितः सर्वराजभिः । 020a
ययौ मातङ्गराजेन राजार्हेण पताकिना । 020c
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥ 020e
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतुना । 021a
श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः ॥ 021c
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः । 022a
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ॥ 022c
स्यन्दनैर्वरवर्माणो भीष्मस्यासन्पुरोगमाः । 023a
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् ॥ 023c
भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः । 024a
जाम्बूनदमयी वेदी कमण्डलुविभूषिता ॥ 024c
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह । 025a
अनेकशतसाहस्रमनीकमनुकर्षतः ॥ 025c
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः । 026a
तस्य पौरवकालिङ्गकाम्भोजाः ससुदक्षिणाः ॥ 026c
क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः । 027a
स्यन्दनेन महार्हेण केतुना वृषभेण च । 027c
प्रकर्षन्नेव सेनाग्रं मागधस्य कृपो ययौ ॥ 027e
तदङ्गपतिना गुप्तं कृपेण च मनस्विना । 028a
शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद्बलम् ॥ 028c
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः । 029a
शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥ 029c
शतं रथसहस्राणां तस्यासन्वशवर्तिनः । 030a
अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥ 030c
तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम् । 031a
अनन्तरथनागाश्वमशोभत महद्बलम् ॥ 031c
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च । 032a
पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥ 032c
तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः । 033a
यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः ॥ 033c
शुशुभे केतुमुख्येन पावकेन कलिङ्गकः । 034a
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥ 034c
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् । 035a
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥ 035c
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः । 036a
भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥ 036c
गजस्कन्धगतावास्तां भगदत्तेन सम्मितौ । 037a
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥ 037c
स रथानीकवान्व्यूहो हस्त्यङ्गो नृपशीर्षवान् । 038a
वाजिपक्षः पतत्युग्रः प्रहसन्सर्वतोमुखः ॥ 038c
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च । 039a
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥ ॥ 039c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तदशोऽध्यायः ॥

6-17-2 मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति । मघा पित्र्यां नक्षत्रं तस्य विषयो देशः पितृलोकस्तद्गतः सोमः । कुरुपाण्डवयुद्धारम्भदिनमुक्तं भारतसावित्र्याम्-हेमन्ते प्रथमे मासि शुक्लपक्षे त्रयोदशीम् । प्रवृत्तं भारतं युद्धं नक्षत्रे यमदैवते । प्रथमे मार्गशीर्षे । अत्र त्रयोदशीशब्देन तद्युक्ता चतुर्दश्येव ग्राह्या । अर्जुनेन हतो भीष्मो माघमासेऽसिताष्टमीति । त्रयोदश्यां तु मध्याह्ने भारद्वाजो निपातित इति । तत्रैव युद्धस्य दशमे पञ्चदशे चाह्नि हतयोर्भीष्मद्रोणयोरष्टमीत्रयोदशीसंयोगदर्शनात् । अत्र पौषेति माघशब्दो मकरायनाभिप्रायेण । तदानीं तत्सम्भवात् असिताष्टमीति छेदः । अन्यथा सप्तमीद्वादश्योरेव तयोर्हननं प्राप्नोति । यत्तु अमावास्यायां दुर्योधनहननं तत्रैवोक्तं तत्राप्यमावास्याशब्द इष्टिदिने प्रतिपद्येव प्रयुक्तो वेदितव्यः । यमदैवते इति भरणी न ग्राह्या किन्तु युग्मदैवतं मृगशीर्षमेव ग्राह्यम् । तस्य हि पूर्वदलं शुक्रदैवत्यत्वादासुरम् उत्तरार्थं बुधदैवत्यत्वाद्दैव्यम् । तेन तत्रासुराणामुपरमो देवानामभ्युदयश्च सिद्ध्यति । किञ्च-चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै । पुष्येण सम्प्रयातोस्मि श्रवणे पुनरागत इति युद्धारम्भादष्टादशेऽह्नि तीर्थयात्रात आगतस्य बलदेवस्य वचनात् श्रवणे युद्धसमाप्तिर्दृश्यते । ततः प्राचीनेऽष्टादशर्क्षे मृगशीर्ष एव युद्धारम्भः सम्भवति नत्वेकविंशे भरण्याम् । अष्टादशदिनमध्ये नक्षत्रत्रयक्षयस्य कल्पयितुमयुक्तत्वात् कार्तिकी कृत्तिकायोगानुपातेन चतुर्दश्यां मृगस्यैव सम्भावनाच्च । एतेन युद्धारम्भं प्रकृत्य- मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति भीष्मपर्वणि सञ्जयवाक्यान्मघायां युद्धारम्भ इत्यपि निरस्तम् । बलदेववाक्यविरुद्धत्वात् । शब्दार्थस्तु मघापदेन तत्सहचराः पितरो लक्ष्यन्ते । तेन युद्धे मृतानाम् उत्तमदेहप्रदानार्थं चन्द्रस्तदा पितृलोके सन्निहितोऽभूदिति । स्वर्गिणां दिव्यदेहलाभश्चन्द्राधीन इति शास्त्रप्रसिद्धेः । तथा द्वादश्यां रात्रियुद्धे चन्द्रोदयकाले-त्रिभागमात्रशेषायां रात्रौ युद्धमवर्ततेत्युक्तम् तत्र त्रिभागेत्यस्य त्रिमुहूर्तशेषायामित्यर्थः । तथा-अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः इति भीष्मवचनं तु-माघोऽयं समनुप्राप्तः- त्रिभगमात्रः पक्षोऽयम् इति वाक्यशेषानुसारात् । अशतं शतहीनं यथा स्यात्तथा अष्टपञ्च अष्टपञ्चाशद्रात्रयो व्यतीता इति व्याख्येयम् । विलोमशोधनात् अष्टपञ्चाशदूनं शतं रात्रयो द्वाचत्वारिंशद्रात्रयो व्यतीता इत्यर्थः । तथाच पौषकृष्णाष्टमीतो माघशुक्लपञ्चम्यां तावती दिनसङ्ख्या पूर्यते पक्षस्य च तृतीयो भागो गतो भवति । ततत्राप्येकतिथिक्षयात् पञ्चम्याः द्विचत्वारिंशत्तमत्वं ज्ञेयम् । शेषो भवितुमर्हतीत्यत्र कार्यशेषो देहत्यागादिरेव शेषो नतु पक्षशेष इति व्याख्या ज्ञेया । तत्रायं निष्कर्षः । कार्तिकशुक्लद्वादश्यां रेवत्यां कृष्णप्रयाणम् । ततो मार्गशीर्षकृष्णपञ्चम्यां पुष्ये सेनयोर्निर्याणम् । ततः पञ्चम्याम् उपरि षष्ठीमारभ्य सप्तदिनानि गणयित्वा तदुपर्यष्टमेऽह्नि अमावास्या भविष्यतीत्यनेन त्रयोदशदिनात्मकोऽयं कृष्णपक्षो महोत्पातजनक इति सूचितम् । क्षीणयोश्च तिथ्योः पक्षान्तरे पुनर्वृद्ध्या सङ्ख्यापूरणेभवतीति मार्गशीर्षकृष्णपञ्चमीमारभ्य पौषशुक्लप्रतिपत् द्विचत्वारिंशी तिथिर्भवतीति बलदेववाक्योक्ता दिनसङ्ख्या नक्षत्रसङ्ख्या चानुगृहीता भवति । यत्तु- सप्तमाच्चापि दिवसादमावास्या भविष्यति । सङ्ग्रामयोजयेत्तत्र तां ह्याहुः शक्रदैवताम् । प्रयाध्वं वै कुरुक्षेत्रं पुष्योद्येति पुनःपुनरिति दुर्योधनवाक्यम् तत्र सङ्ग्राममित्यनेन सङ्ग्रामे जयसाधनं धाराबन्धादिकं तस्यां योजयेदित्युक्तम् । शक्रदैवतामित्यनेन तस्यां ज्येष्ठानक्षत्रयोग उच्यते । सच तिथिद्वयक्षयात्तत्रासम्भवन्नपि तत्र तिथिवदेव नक्षत्रक्षयाद्वा तिथिनक्षत्रयोराद्यन्तयोगाद्वा ज्ञेय इति सर्वं समञ्जसम् । महाग्रहाः राहुकेतोरुपग्रहत्वात्सप्तैव ॥ 6-17-4 ववाशिरे शब्दं कृतवन्तः ॥ 6-17-11 अयोनिधनं अयसा शस्त्रेण मरणम् ॥ 6-17-18 तालेन ध्वजभूतेन ॥ 6-17-20 गोवासनः तद्देश्यः ॥ 6-17-29 वराहेण केतुमुख्येनेति सम्बन्धः ॥ 6-17-34 निष्केण कण्ठाभरणेन ॥