अध्यायः 016

कुरुपाण्डवसेनावर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् । 001a
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥ 001c
शङ्खदुन्दुभिघोषैश्च सिंहनादैश्च भारत । 002a
हयहेषितनादैश्च रथनेमिस्वनैस्तथा ॥ 002c
गजानां बृहतां चैव योधानां चापि गर्जताम् । 003a
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥ 003c
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः । 004a
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ॥ 004c
राजेन्द्र तव पुत्राणां पाण्डवानां तथैव च । 005a
दुष्प्रधृष्याणि चास्त्राणि सशस्त्रकवचानि च ॥ 005c
ततः प्रकाशे सैन्यानि समदृश्यन्त भारत । 006a
त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च ॥ 006c
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः । 007a
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥ 007c
रथानीकान्यदृश्यन्त नगराणीव भूरिशः । 008a
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥ 008c
धनुर्भिर्ऋष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः । 009a
योधाः प्रहरणैः शुभ्रैस्तेष्वनीकेष्ववस्थिताः ॥ 009c
गजाः पदाता रथिनस्तुरगाश्च विशाम्पते । 010a
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥ 010c
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः । 011a
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥ 011c
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः । 012a
अर्चिष्मन्तो व्यरोचन्त गजारोहाः सहस्रशः ॥ 012c
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव । 013a
सन्नद्धास्ते प्रवीराश्च ददृशुर्युद्धकाङ्क्षिणः ॥ 013c
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः । 014a
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥ 014c
शकुनिः सौबलः शल्य आवन्त्योऽथ जयद्रथः । 015a
विन्दानुविन्दौ कैकेयाः काम्भोजश्च सुदक्षिणः ॥ 015c
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः । 016a
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥ 016c
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः । 017a
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥ 017c
एते चान्ये च बहवो दुर्योधनवशानुगाः । 018a
राजानो राजपुत्राश्च नीतिमन्तो महारथाः ॥ 018c
सन्नद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः । 019a
बद्धकृष्णाजिनाः सर्वे बलिनो युद्धशालिनः ॥ 019c
हृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः । 020a
समर्था दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥ 020c
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः । 021a
अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ॥ 021c
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् । 022a
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥ 022c
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् । 023a
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ 023c
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः । 024a
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः । 024c
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ॥ 024e
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः । 025a
एकादशैताः श्रीजुष्टा वाहिन्यस्तव पार्थिव ॥ 025c
पाण्डवानां तथा सप्त महापुरुषपालिताः । 026a
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ॥ 026c
युगान्ते समवेतौ द्वौ दृश्येते सागराविव । 027a
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः । 027c
अनीकानां समेतानां कौरवाणां तथाविधः ॥ ॥ 027e

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षोडशोऽध्यायः ॥

6-16-4 युक्तं सन्नद्धम् । अशेषतः सर्वप्रकारैः ॥ 6-16-10 वागुराकाराः परेषां बन्धनार्थमित्यर्थः ॥ 6-16-14 तलबद्धाः तलं ज्याघातत्राणं बद्धं यैस्ते । कलापिनः तूणवन्तः ॥ 6-16-27 तथाविधः सम्मर्द इति शेषः ॥