अध्यायः 015
दुर्योधनेन दुःशासनं प्रति भीष्मरक्षणाज्ञापनम् ॥ 1 ॥
सञ्जय उवाच 001
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि । 001a
न तु दुर्योधने दोषमिममासङ्क्तुमर्हसि ॥ 001c
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः । 002a
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥ 002c
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् । 003a
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ 003c
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया । 004a
अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने ॥ 004c
हयानां च गजानां च राज्ञां चामिततेजसाम् । 005a
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥ 005c
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः । 006a
दिष्टमेतत्पुरा नूनमिदमेव नराधिप ॥ 006c
नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते । 007a
यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम् ॥ 007c
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च । 008a
परचित्तस्य विज्ञानमतीतानागतस्य च ॥ 008c
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा । 009a
अस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥ 009c
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् । 010a
भरतानामभूद्युद्धं यथा तद्रोमहर्षणम् ॥ 010c
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः । 011a
दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ 011c
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः । 012a
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ 012c
अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः । 013a
पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ 013c
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् । 014a
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ 014c
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् । 015a
श्रूयते स्त्री ह्यसौ पूर्वं तस्मादूर्त्यो रणे मम ॥ 015c
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः । 016a
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ 016c
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः । 017a
सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम् ॥ 017c
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् । 018a
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ 018c
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् । 019a
गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोपि शिखण्डिनः ॥ 019c
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः । 020a
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ ॥ 020c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चदशोऽध्यायः ॥
6-15-1 आसङ्क्तुम् आसज्जयितुम् ॥ 6-15-2 एनसा पापेन ॥ 6-15-9 व्युत्थितस्य उच्छास्त्रवर्तिन उत्पत्तिः कारणं तस्य विज्ञानम् ॥ 6-15-11 व्यूढेषु व्यूहरचनया स्थितेषु ॥