अध्यायः 014

धृतराष्ट्रेण भीष्महननश्रवणात्परिशोचनपूर्वकं सञ्जयं प्रति विस्तरेण भीष्मादियुद्धवर्णनचोदना ॥ 1 ॥ धृतराष्ट्र उवाच 001
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना । 001a
कथं रथात्स न्यपतत्पिता मे वासवोपमः ॥ 001c
कथमाचक्ष्व मे योधा हीना भीष्मेण सञ्जय । 002a
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ 002c
तस्मिन्हते महाप्राज्ञे महेष्वासे महाबले । 003a
महासत्वे नरव्याघ्रे किमु आसीन्मनस्तव ॥ 003c
आर्तिं परामाविशति मनः शंससि मे हतम् । 004a
कुरूणामृषभं वीरमकम्पं पुरुषर्षभम् ॥ 004c
के तं यान्तमनुप्राप्ताः के वास्यासन्पुरोगमाः । 005a
केऽतिष्ठन्के न्यवर्तन्त केऽन्ववर्तन्त सञ्जय ॥ 005c
के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम् । 006a
तथाऽनीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ 006c
यस्तमोर्क इवापोहन्परसैन्यममित्रहा । 007a
सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥ 007c
अकरोद्दुष्करं कर्म रणे पाण्डुसुतेषु यः । 008a
ग्रसमानमनीकानि य एनं पर्यवारयन् ॥ 008c
कृतिनं तं दुराधर्षं सञ्जयास्य त्वमन्तिके । 009a
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ 009c
निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम् । 010a
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥ 010c
अनर्हं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् । 011a
पातयामास कौन्तेयः कथं तमजितं युधि ॥ 011c
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे । 012a
परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः ॥ 012c
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे । 013a
कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः ॥ 013c
परिकृष्य स सेनां तु दशरात्रमनीकहा । 014a
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 014c
यः स शक्र इवाक्षय्यं वर्षं शरमयं क्षिपन् । 015a
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 015c
स शेते निहतो भूमौ वातभुग्न इव द्रुमः । 016a
मम दुर्मन्त्रितेनाजौ यथा नार्हति भारतः ॥ 016c
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी । 017a
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥ 017c
कथं भीष्मेण सङ्ग्रामं प्राकुर्वन्पाण्डुनन्दनाः । 018a
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ॥ 018c
कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा । 019a
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ 019c
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना । 020a
भीष्मो विनिहतो युद्धे देवैरपि दुरासदः ॥ 020c
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् । 021a
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥ 021c
तं हतं समरे भीष्मं महारथकुलोदितम् । 022a
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ 022c
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् । 023a
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥ 023c
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः । 024a
कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम् ॥ 024c
अश्मसारमयं नूनं हृदयं सुदृढं मम । 025a
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 025c
यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे । 026a
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 026c
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् । 027a
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ॥ 027c
योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान् । 028a
निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ॥ 028c
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् । 029a
कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम् ॥ 029c
गदासिमकरावासं हयावर्त्तं गजाकुलम् । 030a
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ 030c
हयान्गजपदातींश्च रथांश्च तरसा बहून् । 031a
निमज्जयन्तं समरे परवीरापहारिणम् ॥ 031c
विदह्यमानं कोपेन तेजसा च परन्तपम् । 032a
वेलेव मकरावासं के वीराः पर्यवारयन् ॥ 032c
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा । 033a
दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन् ॥ 033c
के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः । 034a
पृष्ठतः के परान्वीरानपासेधन्यतव्रताः ॥ 034c
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके । 035a
के रक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ॥ 035c
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् । 036a
अग्रतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥ 036c
पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम् । 037a
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ॥ 037c
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते । 038a
दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥ 038c
सर्वलोकेश्वरस्येव परमस्य प्रजापतेः । 039a
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ॥ 039c
यस्मिन्द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः । 040a
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ॥ 040c
यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः । 041a
न पाण्डवानगणयत्कथं स निहतः परैः ॥ 041c
यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः । 042a
काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ॥ 042c
यस्मिञ्जाते महावीर्ये शान्तनुर्लोकविश्रुतः । 043a
शोकं दैन्यं च दुःखं च प्राजहात्स च तत्क्षणे ॥ 043c
प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम् । 044a
वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम् ॥ 044c
सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम् । 045a
हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम् ॥ 045c
धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः । 046a
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 046c
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः । 047a
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥ 047c
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् । 048a
हतं शंससि मे भीष्मं किं नु दुःखमतः परम् ॥ 048c
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः । 049a
जामदग्न्येन वीरेण परवीरनिघातिना । 049c
न हतो यो महाबुद्धिः स हतोऽद्य शिखण्डिना ॥ 049e
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् । 050a
तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ॥ 050c
यः शूरं कृतिनं युद्धे सर्वशस्त्रविशारदम् । 051a
परमास्त्रविदं वीरं जघान भरतर्षभम् ॥ 051c
के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि । 052a
शंस मे तद्यथा चासीद्युद्धं भीष्मस्य पाण्डवैः ॥ 052c
योषेव हतवीरा मे सेना पुत्रस्य सञ्जय । 053a
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥ 053c
पौरुषं सर्वलोकस्य परं यस्मिन्महाहवे । 054a
परासक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥ 054c
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय । 055a
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥ 055c
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः । 056a
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥ 056c
अद्रिसारमयं नूनं हृदयं मम सञ्जय । 057a
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 057c
यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे । 058a
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 058c
न चास्त्रेण न शौर्येण तपसा मेधया न च । 059a
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ 059c
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः । 060a
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥ 060c
पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् । 061a
आशंसेऽहं परं त्राणं भीष्माच्छान्तनुनन्दनात् ॥ 061c
यदादित्यमिवापश्यत्पतितं भ्रुवि सञ्जय । 062a
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्मत ॥ 062c
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् । 063a
शेषं किञ्चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ 063c
दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः । 064a
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 064c
वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम् । 065a
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥ 065c
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । 066a
पराक्रमः पराशक्तिस्तत्तु तस्मिन्प्रतिष्ठितम् ॥ 066c
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् । 067a
कथं शान्तनवं तातं पाण्डुपुत्रा न्यवारयन् ॥ 067c
यथायुक्तान्यनीकानि कथं युद्धं महात्मभिः । 068a
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ॥ 068c
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । 069a
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥ 069c
यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम् । 070a
शरशक्तिमहाखड्गतोमराक्षां महाभयाम् । 070c
प्राविशन्कितवा मन्दाः सभां युद्धदुरासदाम् ॥ 070e
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः । 071a
के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः । 071c
अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय ॥ 071e
न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम् । 072a
पितरं भीमकर्माणं भीष्ममाहवशोभिनम् ॥ 072c
आर्तिं मे हृदये रूढां महतीं पुत्रहानिजाम् । 073a
त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि सञ्जय ॥ 073c
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् । 074a
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥ 074c
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् । 075a
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥ 075c
यद्वृत्तं तत्र सङ्ग्रामे मन्दस्याबुद्धिसम्भवम् । 076a
अपनीतं सुनीतं यत्तन्ममाचक्ष्व सञ्जय ॥ 076c
यत्कृतं तत्र सङ्ग्रामे भीष्मेण जयमिच्छता । 077a
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥ 077c
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः । 078a
क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत् ॥ ॥ 078c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्दशोऽध्यायः ॥

6-14-1 अस्य त्वमन्तिके स्थित्वा सर्वं दृष्टवानसीति शेषः ॥ 6-14-12 प्रचिन्वन्तं पुष्पवदाददानम् ॥ 6-14-13 समचेष्टत म्रियमाणपशुवद्धस्तपादविक्षेपं कृतवत् ॥ 6-14-23 अजहुस्त्यक्तवन्तः ॥ 6-14-27 मौर्वीघोषेण स्तनयित्नुर्गर्जन्मेघ इव । पृषत्कपृषतो बाणबिन्दुः ॥ 6-14-34 अपासेधन् न्यवारयन् ॥ 6-14-44 प्रोक्त लोके ख्यातम् ॥ 6-14-45 सर्वास्त्रविनयोपेतं सर्वास्त्रशिक्षायुक्तम् ॥ 6-14-54 परासक्ते परलोकप्रिये ॥