अध्यायः 013

सञ्जयेन धृतराष्ट्रं प्रति भीष्महननकथनम् ॥ 1 ॥ वैशम्पायन उवाच 001
अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत । 001a
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ 001c
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः । 002a
आचष्ट निहतं भीष्मं भरतानां पितामहम् ॥ 002c
सञ्जय उवाच 003
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ । 003a
हतो भीष्मः शान्तनवो भरतानां पितामहः ॥ 003c
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् । 004a
शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥ 004c
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् । 005a
स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना ॥ 005c
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे । 006a
जिगायैकरथेनैव काशिपुर्यां महारथः ॥ 006c
जामदग्न्यं रणे रामं योऽयुध्यदपसम्भ्रमः । 007a
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ 007c
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव । 008a
समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः ॥ 008c
शरदंष्ट्रो धनुर्वक्रः खड्गजिह्वो दुरासदः । 009a
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ 009c
पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे । 010a
प्रावेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥ 010c
परिरक्ष्य स सेनां ते दशरात्रमनीकहा । 011a
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 011c
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः । 012a
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 012c
स शेते निहतो भूमौ वातभग्न इव द्रुमः । 013a
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ ॥ 013c

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोदशोऽध्यायः ॥

6-13-4 ककुदं राज्ञां मध्ये ध्वजतुल्यम् । धाम तेजः ॥ 6-13-7 अपसम्भ्रमो निर्भयः ॥