अध्यायः 012

क्रौञ्चदिद्वीपवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा । 001a
एवं तत्र महाराज ब्रुवतश्च निबोध मे ॥ 001c
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः । 002a
सुरोदः सागरश्चैव तथान्यो जलसागरः ॥ 002c
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप । 003a
पर्वताश्च महाराज समुद्रैः परिवारिताः ॥ 003c
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् । 004a
पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ॥ 004c
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । 005a
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ॥ 005c
कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह । 006a
सम्पूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ॥ 006c
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः । 007a
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ 007c
गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् । 008a
यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ 008c
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः । 009a
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ॥ 009c
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः । 010a
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ॥ 010c
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः । 011a
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥ 011c
तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः । 012a
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ 012c
तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् । 013a
धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ॥ 013c
सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः । 014a
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ॥ 014c
विहरन्ते रमन्ते च न तेषु म्रियते जनः । 015a
न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ॥ 015c
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव । 016a
अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ॥ 016c
यथाश्रुतं महाराज तदव्यग्रमनाः शृणु । 017a
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः ॥ 017c
क्रौञ्चात्परो वामनको वामनादन्धकारकः । 018a
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः ॥ 018c
मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः । 019a
गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ॥ 019c
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन । 020a
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ 020c
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः । 021a
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ॥ 021c
उष्णात्परः प्रावरकः प्रावारादन्धकारकः । 022a
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ 022c
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः । 023a
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप ॥ 023c
एते देशा महाराज देवगन्धर्वसेविताः । 024a
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥ 024c
तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः । 025a
तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ॥ 025c
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप । 026a
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ॥ 026c
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम । 027a
ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ॥ 027c
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः । 028a
एको जनपदो राजन्द्वीपेष्वेतेषु भारत । 028c
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥ 028e
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः । 029a
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥ 029c
स राजा स शिवो राजन्स पिता प्रतितामहः । 030a
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥ 030c
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् । 031a
सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ॥ 031c
ततः परं समा नाम दृश्यते लोकसंस्थितिः । 032a
चतुरश्रं महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥ 032c
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसम्मताः । 033a
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥ 033c
सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः । 034a
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे ॥ 034c
असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा । 035a
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ॥ 035c
असम्बद्धा महाराज तान्निगृह्णन्ति ते गजाः । 036a
पुष्करैः पद्मसङ्काशैर्विकसद्भिर्महाप्रभैः ॥ 036c
शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः । 037a
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः । 037c
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥ 037e
धृतराष्ट्र उवाच 038
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः । 038a
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥ 038c
सञ्जय उवाच 039
उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः । 039a
स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ॥ 039c
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः । 040a
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥ 040c
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ । 041a
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥ 041c
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः । 042a
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ 042c
एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ॥ 043ac
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन । 043a
विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ॥ 043c
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ । 044a
श्रूयते परमोदारः पतगोऽसौ विभावसुः ॥ 044c
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत । 045a
स राहुश्छादयत्येतौ यथाकालं महत्तया ॥ 045c
चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः । 046a
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ॥ 046c
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि । 047a
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥ 047c
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति । 048a
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ॥ 048c
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसम्मतः । 049a
आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ॥ 049c
यः शृणोति महीपाल पर्वणीदं यतव्रतः । 050a
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ 050c
इदं तु भारतं वर्षं यत्र वर्तामहे वयम् । 051a
पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ॥ ॥ 051c

इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि द्वादशोऽध्यायः ॥ ॥ समाप्तमिदं भूमिपर्व ॥

6-12-4 मानःशिलो मनःशिलामयः ॥ 6-12-34 तस्य गजचतुष्टयस्य पृथिव्या आश्रयभूतस्य । तत्कस्योपरि वर्तते इति दुर्वचम् । तेन ईश्वरशक्त्यैव दिग्गजा ध्रियन्त इति भावः ॥ 6-12-36 पुष्करैः शुण्डाग्रैः ॥ 6-12-39 उत्तरं सूर्येन्दुराहुप्रमाणम् ॥ 6-12-41 परिणाहेन परिधिना षट्त्रिंशत्सहस्राणि विपुलत्वेन ततोऽप्याधिक्येन ॥ 6-12-42 षष्टिर्योजनानि परिणाह एवेत्यर्थः ॥ 6-12-45 पतगः शीघ्रगः । विभावसुः सूर्यः ॥