अध्यायः 011
शाकद्वीपवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय । 001a
विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ॥ 001c
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् । 002a
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥ 002c
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च । 003a
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥ 003c
सञ्जय उवाच 004
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् । 004a
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ॥ 004c
अष्टादश सहस्राणि योजनानि विशाम्पते । 005a
षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ 005c
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः । 006a
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ 006c
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः । 007a
सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ॥ 007c
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव । 008a
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥ 008c
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप । 009a
विष्कम्भेण महाराज सागरोऽपि विभागशः ॥ 009c
क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः । 010a
तत्र पुण्या जनपदास्तत्र न म्रियते जनः । 010c
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥ 010e
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ । 011a
उक्त एष महाराज किमन्यत्कथयामि ते ॥ 011c
धृतराष्ट्र उवाच 012
शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय । 012a
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ॥ 012c
सञ्जय उवाच 013
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः । 013a
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ॥ 013c
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ॥ 014ac
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । 015a
प्रागायतो महाराज मलयो नाम पर्वतः ॥ 015c
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः । 016a
ततः परेण कौरव्य जलधारो महागिरिः ॥ 016c
ततो नित्युमुपादत्ते वासवः परमं जलम् । 017a
ततो वर्षं प्रभवति वर्षकाले जनेश्वर ॥ 017c
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता । 018a
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ 018c
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः । 019a
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । 019c
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥ 019e
धृतराष्ट्र उवाच 020
सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया । 020a
प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह ॥ 020c
सञ्जय उवाच 021
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन । 021a
गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप ॥ 021c
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिःस्मृतः॥ 022ac
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः । 023a
केसरः केसरयुतो यतो वातः प्रवर्तते ॥ 023c
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः । 024a
वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ॥ 024c
महामेरुर्महाकाशो जलदः कुमुदोत्तरः । 025a
जलधारो महाराज सुकुमार इति स्मृतः ॥ 025c
रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः । 026a
केसरस्याथ मौदाकी परेण तु महापुमान् ॥ 026c
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च । 027a
जम्बूद्वीपेन सङ्ख्यातस्तस्य मध्ये महाद्रुमः ॥ 027c
शाको नाम महाराज प्रजा तस्य सदानुगा । 028a
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ॥ 028c
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च । 029a
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥ 029c
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते । 030a
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥ 030c
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः । 031a
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ॥ 031c
सुकुमारी कुमारी च शीताशी वेणिका तथा । 032a
महानदी च कौरव्य तथा मणिजला नदी ॥ 032c
चक्षुर्वर्धनिका चैव नदी भरतसत्तम । 033a
तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ॥ 033c
सहस्राणां शतान्येव यतो वर्षति वासवः । 034a
न तासां नामधेयानि परिमाणं तथैव च ॥ 034c
शक्यन्ते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः । 035a
तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः ॥ 035c
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा । 036a
मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ॥ 036c
मशकेषु च राजन्या धार्मिकाः सर्वकामदाः । 037a
मानसाश्च महाराज वैश्यधर्मोपजीविनः ॥ 037c
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः । 038a
शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ॥ 038c
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः । 039a
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ 039c
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् । 040a
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ॥ ॥ 040c
इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि एकादशोऽध्यायः ॥
6-11-4 ग्रहं राहुम् ॥ 6-11-5 पर्वताकृतित्वाज्जम्बुपर्वत इत्युच्यते ॥ 6-11-6 क्षेत्रफलतः पञ्चसहस्रायामत्वाज्जम्बूद्वीपस्य तदुभयतः पञ्चपञ्चभिः सहस्रैः समुद्रस्य विष्कम्भो विस्तारः तेन समुद्रस्य द्वीपस्य पञ्चदशसहस्रयोजनो व्यासः । द्विगुणः दशसहस्रयोजनः परिमण्डलश्चेदुभयतः समुद्रवेष्टनेन सह चत्वारिंशत्सहस्रः । एवं तृतीयोऽशीतिसहस्रः । चतुर्थः षष्टिसहस्राधिकं लक्षम् । पञ्चमो लक्षत्रयं विंशतिसहस्राणि । षष्ठो लक्षषट्कं चत्वारिंशत्सहस्राणि । सप्तमो द्वादशलक्षाण्यशीतिसहस्राणि । एतेषां सङ्कलने पञ्चविंशतिलक्षाणि पञ्चत्रिंशत्सहस्राणि योजनानि सप्तानां द्वीपानां समुद्राणां विस्तारः ॥ 6-11-18 रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणापि दिव्येन रूपेणात्रापि वर्तते एव । विधिर्मर्यादा पितामहेन कृता ॥ 6-11-21 पतगवर्णं व्याचष्टे तयोरिति । मिश्रो वर्णः पतग इत्यर्थः ॥ 6-11-22 यस्मात् श्यामो गिरिस्तस्मात्तत्स्थानां श्यामो वर्णः प्रवृत्त इत्यर्थः ॥