अध्यायः 010

चतुर्युगवर्णनम् ॥ धृतराष्ट्र उवाच 001
भारतस्यास्य वर्षस्य तथा हैमवतस्य च । 001a
प्रमाणमायुषः सूत बलं चापि शुभाशुभम् ॥ 001c
अनागतमतिक्रान्तं वर्तमानं च सञ्जय । 002a
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥ 002c
सञ्जय उवाच 003
चत्वारि भारते वर्षे युगानि भरतर्षभ । 003a
कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ॥ 003c
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं प्रभो । 004a
सङ्क्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते ॥ 004c
चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम । 005a
आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम ॥ 005c
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप । 006a
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति साम्प्रतम् ॥ 006c
न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ । 007a
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥ 007c
महाबला महासत्वाः प्रज्ञागुणसमन्विताः । 008a
प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ 008c
जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः । 009a
प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः ॥ 009c
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः । 010a
प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः ॥ 010c
वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः । 011a
त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः ॥ 011c
सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे । 012a
महोत्साहा वीर्यवन्तः परस्परजयैषिणः ॥ 012c
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप । 013a
लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत ॥ 013c
ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च । 014a
तिष्ये भवति भूतानां रागो लोभश्च भारत ॥ 014c
सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप । 015a
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥ ॥ 015c

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि दशमोऽध्यायः ॥

6-10-3 तिष्यं कलियुगम् ॥ 6-10-8 प्रजायन्ते प्रजां जनयन्ति ॥ 6-10-10 वपुष्मन्तः प्रशस्तदेहाः ॥ 6-10-12 सर्वे वर्णाः परस्परजयैषिणो जायन्त इति सम्बन्धः ॥ 6-10-14 ईर्ष्या परोत्कर्षासहिष्णुत्वम् । मानः स्वस्मिन्पूज्यताबुद्धिः । क्रोधोऽभिज्वलनम् । माया कपटम् । असूया परगुणेषु दोषाविष्करणम् । रागो विषयेषु प्रीतिः । लोभस्तल्लिप्सा ॥ 6-10-15 सङ्क्षेपो गुणानामिति शेषः ॥