अध्यायः 009

भारतवर्षस्थनदीपर्वतदेशानां विस्तरेण कथनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम् । 001a
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम ॥ 001c
यत्र गृद्धा पाण्डुपुत्रा यत्र मे सज्जते मनः । 002a
एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान्मतः ॥ 002c
सञ्जय उवाच 003
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम । 003a
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ 003c
अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः । 004a
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ 004c
अत्र ते कीर्तयिष्यामि वर्षं भारत भारतम् । 005a
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ 005c
पृथोस्तु राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः । 006a
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ 006c
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च । 007a
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ 007c
कुशिकस्य च दुर्धर्ष गाधेश्चैव महात्मनः । 008a
सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च ॥ 008c
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् । 009a
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥ 009c
तत्ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम । 010a
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥ 010c
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । 011a
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ 011c
तेषां सहस्रशो राजन्पर्वतास्ते समीपतः । 012a
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ 012c
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः । 013a
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥ 013c
नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् । 014a
गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ 014c
शतद्रूं चन्द्रभागां च यमुनां च महानदीम् । 015a
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ 015c
नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम् । 016a
इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥ 016c
वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां कृमिम् । 017a
करीषिणीं चित्रवाहां चित्रसेनां च निम्नगाम् ॥ 017c
गोमतीं धूतपापां च वन्दनां च महानदीम् । 018a
कौशिकीं त्रिविदां कृत्यां निचितां लोहितारणीम् ॥ 018c
रहस्यां शतकुम्भां च सरयूं च तथैव च । 019a
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ 019c
शरावतीं पयोष्णीं च वेणां भीमरथीमपि । 020a
कावेरीं चुलुकां चापि वाणीं शतबलामपि ॥ 020c
नीवारामहितां चापि सुप्रयोगां जनाधिप । 021a
पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम् ॥ 021c
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा । 022a
पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम् ॥ 022c
करीषिणीमसिक्नीं च कुशचीरां महानदीम् । 023a
मकरीं प्रवरां मेनां हेमां घृतवतीं तथा ॥ 023c
पुरावतीमनुष्णां च शैब्यां कापीं च भारत । 024a
सदानीरामधृष्यां च कुशधारां महानदीम् ॥ 024c
सदाकान्तां शिवां चैव तथा वीरवतीमपि । 025a
वस्त्रां सुवस्त्रां गौरीं च कम्पनां सहिरण्वतीम् ॥ 025c
वरां वीरकरां चापि पञ्चमीं च महानदीम् । 026a
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ 026c
उपेन्द्रां बहुलां चैव कुवीरामम्बुवाहिनीम् । 027a
विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् ॥ 027c
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि । 028a
खलुं सुवामां वेदाश्वां हरिश्रावां महापगाम् ॥ 028c
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् । 029a
कौशिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम् ॥ 029c
दुर्गां चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम् । 030a
यवक्षामथ रोहीं च तथा जाम्बूनदीमपि ॥ 030c
सुनसां तमसां दासीं वसामन्यां वराणसीम् । 031a
नीलां धृतवतीं चैव पर्णाशां च महानदीम् ॥ 031c
मानवीं वृषभां चैव ब्रह्ममेध्यां बृहद्ध्वनीम् । 032a
एताश्चान्याश्च बहुधा महानद्यो जनाधिप ॥ 032c
सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् । 033a
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत ॥ 033c
चित्रोपलां चित्ररथां मञ्जुलां वाहिनीं तथा । 034a
मन्दाकिनीं वैतरणीं कोषां चापि महानदीम् ॥ 034c
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम् । 035a
लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ॥ 035c
कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम् । 036a
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत ॥ 036c
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः । 037a
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः ॥ 037c
इत्येताः सरितो राजन्समाख्याता यथास्मृति । 038a
अत ऊर्ध्वं जनपदान्निबोध गदतो मम ॥ 038c
तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः । 039a
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च ॥ 039c
मत्स्याः कुशल्याः सौशल्याः कुन्तयः कान्तिकोसलाः । 040a
चेदिमत्स्यकरूशाश्च भोजाः सिन्धुपुलिन्दकाः ॥ 040c
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह । 041a
पञ्चालाः कोसलाश्चैव नैकपृष्ठा धुरन्धराः ॥ 041c
गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः । 042a
जठराः कुकुराश्चैव सदशार्णाश्च भारत ॥ 042c
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः । 043a
गोमन्ता मन्दकाः सण्डा विदर्भा रूपवाहिकाः ॥ 043c
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः । 044a
अधिराज्यकुशाद्यश्च मल्लराष्ट्रं च केवलम् ॥ 044c
वारवास्यायवाहाश्च चक्राश्चक्रातयः शकाः । 045a
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा ॥ 045c
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च । 046a
मल्लाः सुदेष्णाः प्रह्लादा माहिकाः शशिकास्तथा ॥ 046c
बाह्लीका वाटधानाश्च आभीराः कालतोयकाः । 047a
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः ॥ 047c
अटवीशिखराश्चैव मेरुभूताश्च मारिष । 048a
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा ॥ 048c
कुन्दापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः । 049a
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ॥ 049c
बहिर्गिर्याङ्गमलजा मगधा मानवर्जकाः । 050a
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप ॥ 050c
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा । 051a
शका निषादा निषधास्तथैवानर्तनैर्ऋताः ॥ 051c
दुर्गालाः प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा । 052a
तीरग्रहाः शूरसेना ईजिकाः कन्यका गुणाः ॥ 052c
तिलभारा मसीराश्च मधुमन्तः सकुन्दकाः । 053a
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥ 053c
अभीसारा उलूताश्च शैवला बाह्लिकास्तथा । 054a
दार्वी च वानवा दर्वा वातजामरथोरगाः ॥ 054c
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः । 055a
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ॥ 055c
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः । 056a
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः ॥ 056c
किराता बर्बराः सिद्धा वैदेहास्ताम्रलिप्तकाः । 057a
ओण्ड्रा म्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष ॥ 057c
अथापरे जनपदा दक्षिणा भरतर्षभ । 058a
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः ॥ 058c
कर्णाटका महिषका विकल्पा मूषकास्तथा । 059a
झिल्लिकाः कुन्तलाश्चैव सौहृदानभकाननाः ॥ 059c
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः । 060a
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः ॥ 060c
ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः साल्वसेनयः । 061a
व्यूकाः कोकबकाः प्रोष्ठाः सर्मवेगवशास्तथा ॥ 061c
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह । 062a
मालवा वल्लवाश्चैव तथैवापरवल्लवाः ॥ 062c
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा । 063a
मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः ॥ 063c
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा । 064a
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः ॥ 064c
उत्तराश्चापरे म्लेच्छाः क्रूरा भरतसत्तम । 065a
यवनाश्चीनकाम्भोजा दारुणा म्लेच्छजातयः ॥ 065c
सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह । 066a
तथैव रमणाश्चीनास्तथैव दशमालिकाः ॥ 066c
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च । 067a
शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह ॥ 067c
खाशीराश्चान्तचाराश्च पह्लवा गिरिगह्वराः । 068a
आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः ॥ 068c
प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः । 069a
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ 069c
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च । 070a
उद्देशमात्रेण मया देशाः सङ्कीर्तिता विभो ॥ 070c
यथागुणबलं चापि त्रिवर्गस्य महाफलम् । 071a
दुह्याद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ॥ 071c
तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थकोविदाः । 072a
ते त्यजन्त्याहवे प्राणान्वसुगृद्धास्तरस्विनः ॥ 072c
देवमानुषकायानां कामं भूमिः परायणम् । 073a
अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽऽमिषम् ॥ 073c
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् । 074a
न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित् ॥ 074c
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः । 075a
साम्ना भेदेन दानेन दण्डेनैव च भारत ॥ 075c
पिता भ्राता च पुत्राश्च खं द्यौश्च नरपुङ्गव । 076a
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना ॥ ॥ 076c

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि नवमोऽध्यायः ॥

6-9-2 गृद्धाः लोभयुक्ताः । एतत् एतस्य । मे मह्यम् । तत्त्वं याथार्थ्यम् ॥ 6-9-5 प्रियमिति । कर्मभूमित्वादिन्द्रादीनामिदं प्रियं ॥ 6-9-71 यथागुणबलमिति । यथागुणं सत्त्वादिगुणान् अनतिक्रम्य । तद्वत् यथाबलं शौर्यं चानतिक्रम्य । त्रिवर्गस्य धर्मार्थकामात्मकस्य महाफलम् उत्कृष्टफलं हैरण्यगर्भपदप्राप्त्यन्तं सम्यगनुष्ठिता सम्यक् पालिता भूमिर्दुह्यात् पूरयेत् । धेनुरिव कामान् अन्यांश्च दुग्धे इति कामधुक् ॥ 6-9-73 देवकायानां यज्ञेन मानुषकायानामन्नप्रसवेन भूमिः परायणं शरणम् ॥ 6-9-76 अच्छिद्रं सम्पूर्णं दर्शनं यस्याः सा भूमिः ॥